भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.55

1.55.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतुः पञ्चशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 55
हरिरुवाच ।
मध्ये त्विलावृतो वर्षो भद्राश्वः पूर्वतो ऽद्भुतः ।
पूर्वदक्षैणतो वर्षो हिरण्वान्वृषभध्वज

1.55.2

ततः किम्पुरुषो वर्षो मेरोर्दक्षिणतः स्मृतः ।
भारतो दक्षिणे प्रोक्तो हरिर्दक्षिणपाश्चिमे

1.55.3

पश्चिमे केतुमालश्च रम्यकः पश्चिमोत्तरे ।
उत्तरे च कुरोर्वर्षः कल्पवृक्षसमावृतः

1.55.4

सिद्धिः स्वाभाविकी रुद्र ! वर्जयित्वा तु भारतम् ।
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तितमान्

1.55.5

नागद्वीपः कटाहश्च सिंहलो वारुणस्तथा ।
अयं तुनवमस्तेषां द्वीपः सागरसंवृतः

1.55.6

पूर्वे किरातास्तस्यास्ते पश्चिमे यवनाः स्थिताः ।
अन्ध्रा दक्षिणतो रुद्र ! तुरष्कास्त्वपि चोत्तरे

1.55.7

ब्राह्मणाः क्षत्त्रिया वैश्याः सूद्राश्चान्तरवासिनः ।
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः

1.55.8

विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ।
वेदस्मृतिर् नर्मदा च वरदा सुरसा शिवा

1.55.9

तापी पयोष्णी सरयूः कावेरी गोमती तथा ।
गोदावरी भीमरथी कृष्णवेणी महानदी

1.55.10

केतुमाला ताम्रपर्णो चन्द्रभागा सरस्वती ।
ऋषिकुल्या च कावेरी मत्तगङ्गा पयस्विनी

1.55.11

विदर्भा च शतद्रूश्च नद्यः पापहराः शुभाः ।
आसां पिबन्ति सलिलं मध्यदेशादयो जनाः

1.55.12

पाञ्चालाः कुरवो मत्स्या यौधेयाः सपटच्चराः ।
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः

1.55.13

वृषध्वज ! जनाः पाद्माः सूतमागधचेदयः ।
काशय (षाया) श्च विदेहाश्च पूर्वस्यां कोसलास्तथा

1.55.14

कलिङ्गवङ्गपुण्ड्राङ्गा वैदर्भा मूलकास्तथा ।
विन्ध्यान्तर्निलया देशाः पूर्वदक्षिणतः स्मृताः

1.55.15

पुलन्दाश्मकजीमूतनयराष्ट्रनिवासिनः ।
कर्णार्(ना)टकम्बोजघणा दक्षिणापथवासिनः

1.55.16

अम्बष्ठद्रविडा लाटाः काम्भोजा स्त्रीमुखाः शकाः ।
आनर्तवासिनश्चैव ज्ञेया यक्षिणपश्चिमे

1.55.17

स्त्रीराज्याः सैन्धवा म्लेच्छा नास्ति का यवनास्तथा ।
पश्चिमेन च विज्ञेया माथुरा नैषधैः सह

1.55.18

माण्डव्याश्च तुषाराश्च मूलिकाश्वमुखाः खशाः ।
महाकेशा महानासा देशास्तूत्तरपश्चिमे

1.55.19

लम्ब (म्पा) का स्तननागाश्च माद्रगान्धारबाह्लिकाः ।
हिमाचलालया म्लेच्छा उदीचीं दिशमाश्रिताः

1.55.20

त्रिगर्तनीलकोलात (भ) ब्रह्मपुत्राः सटङ्कणाः ।
अभीषाहाः सकाश्मीरा उदक्पर्वेण कीर्तिताः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc