गरुड़ पुराण · अध्याय 1.54
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनिधिवर्णनं नाम त्रिपञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 54
हरिरुवाच ।
अग्नीध्रश्चाग्निबाहुश्च बपुष्मान्ध्युतिमांस्तथा ।
मेधामेधातिथिर्भव्यः शबलः पुत्र एव च
ज्योतिष्मान्दशमो जातः पुत्रा ह्येते प्रियव्रतात् ।
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः
जातिस्मरा महाभागा नैराज्याय ममो दषुः ।
विभज्य सप्त द्वीपानि सप्तानां प्रददौ नृपः
योजनानां प्रमाणेन पञ्चाशत्कोटिराप्लुता ।
जलोपरि मही याता मौरिवास्ते सरिज्जले
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो हर ।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दाधिदुग्धजलैः समम्
द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज ।
जम्बूद्वीपे स्थितो मेरुर्लक्षयोजनविस्तृतः
चतुरशीतिसाहस्रैर्योजनैरस्य चोच्छ्रयः ।
प्रविष्टः षोडशाधस्ताद्द्वत्रिंशन्मूर्ध्नि विस्तृतः
अधः षोडशसाहस्रः कर्णिकाकारसंस्यितः ।
हिमवान्हेमकूटश्च निषधश्चास्य दक्षिणे
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।
प्लक्षादिषु नरा रुद्र ये वसन्ति सनातनाः
शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन ।
जम्बूद्वीपेश्वरात्पुत्रा ह्यग्रीध्नादभवन्नव
नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः ।
रम्यो हिरण्मयाख्यश्च कुरुर्भद्राश्व एव च
केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ ।
नाभेस्तु मेरुदेव्यां तु पुत्रो ऽभूदृषभो हर
तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती ।
सुमतिर्भरतस्याभूत्तत्पुत्रस्तैजसो ऽभवत्
इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः ।
प्रतीहारश्चतत्पुत्रः प्रतिहर्ता तदात्मजः
सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः ।
पृथुश्च तत्सुतो नक्तो नक्तस्यापि गयः स्मृतः
नरो गयस्य तनयस्तत्पुत्रोभुद्विराडगतः ।
ततो धीमान्महातेजा भौवनस्तस्य चात्मजः
त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य विष्वग्ज्योतिः सुतः स्मृतः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0