गरुड़ पुराण · अध्याय 1.53
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रायश्चित्तनिरूपणं नाम द्विपञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 53
सूत उवाच ।
एवं ब्रह्माब्रवीच्छ्रुत्वा हरेरष्टनिधींस्तथा ।
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ
मुकुन्दकु(न) न्दौ नीलश्च शङ्खश्चैवापरो निधिः ।
सत्यामृद्धौ भवन्त्येते स्वरूपं कथयाम्यहम्
पद्मेन लक्षितश्चैव सात्त्विको जायते नरः ।
दाक्षिण्यसारः पुरुषः सुवर्णादिकसंग्रहम्
रुप्यादि कुर्याद्दद्यात्तु यतिदैवादियज्वनाम् ।
महापद्माङ्कितो दद्याद्धनाद्यं धार्मिकाय च
नीधी पद्ममहापद्मौ सात्त्विकौ पुरुषौ स्मृती ।
मकरेणाङ्कितः खड्गबाणकुन्तादिसंग्रही
दद्याच्छ्रुताय मैत्रीं च याति नित्यं च राजभिः ।
द्रव्यार्थं शत्रुणा नाशं संग्रामे चापि संव्रजेत्
मकरः कच्छपश्चैव तामसौ तु निधी स्मृतौ ।
कच्छपी विश्वसेन्नैव न भुङ्केन (ना) ददाति च
निधानमुर्व्यां कुरुते निधिः सोप्येकपूरुषः ।
राजसेनमुकुन्देन लक्षिता राज्यसंग्रही
भुक्तभोगो गायनेभ्यो दद्याद्वेश्यादिकासु च ।
रजस्तमोमयो नन्दी आधारः स्यात्कुलस्य च
स्तुतः प्रीतो भवति वै बहुभार्या भवन्ति च ।
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च
नीलन चाङ्कितः सत्त्वतेजसा संयुतो भवेत् ।
वस्त्रधान्यादिसंग्राही तडागादि करोति च
त्रिपू(पौ) रुषो निधिश्चैव आम्रारामादि कारयेत् ।
एकस्य स्यान्निधिः शङ्खः स्वयं भुङ्क्ते धनादि(न्त)कम्
कदन्नभुक्परिजनो न च शोभनवस्त्रधृक् ।
स्वपोषणपरः शङ्खी दद्यात्परनरे वृथा
मिश्रावलोकनान्मिश्रस्वभावफलदायिनः ।
निधीनां रूपमुक्तं तु हरिणापि हरादिके ।
हरिर्भुवनकोशादि यथोवाच तथा वदे
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0