भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.52

1.52.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दानधर्मनिरूपणं नामैकपञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 52
ब्रह्मोवाच ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं द्विजाः ।
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः

1.52.2

पञ्च पातकिनस्त्वेते तत्संयोगी च पञ्चमः ।
उपपापानि गोहत्याप्रभृतीनि सुरा जगुः

1.52.3

ब्रह्महा द्वादशाब्दानि कुटीं कृत्वा वने वसेत् ।
कुर्यादनशनं वाथ भृगोः पतनमेव च

1.52.4

ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत्स्वयम् ।
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान्परित्यजेत्

1.52.5

दत्त्वा चान्नं च विदुषे ब्रह्महत्यां व्यपोहति ।
अश्वमेधावभृथके स्नात्वा वा मुच्यते द्विजः

1.52.6

सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत् ।
सरस्वत्यास्तरङ्गिण्याः सङ्गमे लोकविश्रुते

1.52.7

शुद्धे त्रिषवणस्नातस्त्रिरात्रोपोषितो द्विजः ।
सेतुबन्धे नरः स्नात्वा मुच्यते ब्रह्महत्यया

1.52.8

कपालमोचने स्नात्वा वाराणस्यां तथैव च ।
सुरापस्तु सुरां पीत्वा अग्निवर्णां द्विजोत्तमः

1.52.9

पयो घृतं वा गोमूत्रं तस्मात्पापात्प्रमुच्यते ।
सुवर्णस्तेयी मुक्तः स्यान्मुसलेन हतो नृपैः

1.52.10

चीरवासा द्विजो ऽरण्ये चरेद्ब्रह्महणव्रतम् ।
गुरुभार्यां समारुह्य ब्राह्मणः काममोहितः

1.52.11

अवगूहेत्स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ।
गुर्वङ्गनागामिनश्च चरेयुर्बह्महव्रतम्

1.52.12

चान्द्रायणानि वा कुर्यात्पञ्च चत्वारि वा पुनः ।
पतितेन च संसर्गं कुरुते यस्तु वै द्विजः

1.52.13

स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ।
तप्तकृच्छ्रं चरेद्वाथ संवत्सरमतन्द्रितः

1.52.14

सर्वस्वदानं विधिवत्सर्वपापविशोधनम् ।
चान्द्रायणं च विधिना कृतं चैवातिकृच्छ्रकम्

1.52.15

पुण्यक्षेत्रे गयादौ च गमनं पापनाशनम् ।
अमावस्यां तिथिं प्राप्य यः समाराधयेद्भवम्

1.52.16

ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ।
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः

1.52.17

यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
वैवस्वताय कालाय सर्वभूतक्षयाय च

1.52.18

प्रत्येकं तिलसंयुक्तान्दद्यात्सप्त जलाञ्जलीन् ।
स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः

1.52.19

ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् ।
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः

1.52.20

पष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ।
सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः

1.52.21

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते

1.52.22

तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ।
ग्रहणादिषु कालेषु महापातकनाशनम्

1.52.23

यः सर्वपापयुक्तो ऽपि पुण्यतीर्थेषु मानवः ।
नियमेन त्यजेत्प्राणान्मुच्यते सर्वपातकैः

1.52.24

ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।
भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम्

1.52.25

पतिव्रता तु या नारी भर्तुः शुश्रूषणोत्सुका ।
न तस्या विद्यते पापमिह लोके परत्र च

1.52.26

तथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।
पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम्

1.52.27

फल्गुतीर्थादिषु स्नातः सर्वाचारफलं लभेत् ।
इत्याह भगवान्विष्णुः पुरा मम यतव्रताः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc