भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.4

1.4.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषयनिरूपणं नाम तृतीयो ऽध्यायः
श्रीगरुडमहापुराणम्- 4
रुद्र उवाच ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव एतद् ब्रूहि जनार्दन

1.4.2

हरिरुवाच ।
शृणु रुद्र प्रवक्ष्यामि सर्गादीन्पापनाशनाम् ।
सर्गस्थितिलयान्तां तां विष्णोः क्रीडां पुरातनीम्

1.4.3

नरनारायणो देवो वासुदेवो निरञ्जनः ।
परमात्मा परं ब्रह्म जगज्जनिलयादिकृत्

1.4.4

तदेतत्सर्वमेवैतव्द्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम्

1.4.5

व्यक्तं विष्णुस्तथाव्यक्तं पुरुषः काल एव च ।
क्रीडतो बालकस्येव चेष्टास्तस्य निशामय

1.4.6

अनादिनिधनो धाता त्वनन्तः पुरुषोत्तमः ।
तस्माद्भवति चाव्यक्तं तस्मादात्मापि जायते

1.4.7

तस्माहुद्धिर्मनस्तस्मात्ततः खं पवन स्ततः ।
तस्मात्तेजस्ततस्त्वापस्ततो भूमिस्ततो ऽभवत्

1.4.8

अण्डो हिरण्मयो रुद्र तस्यान्तः स्वयमेव हि ।
शरीरग्रहणं पूर्वं सृष्ट्यर्थं कुरुते प्रभुः

1.4.9

ब्रह्मा चतुर्मुखो भूत्वा रजोमात्राधिकः सदा ।
शरीरग्रहणं कृत्वासृजदेतच्चराचरम्

1.4.10

अण्डस्यान्तर्जगत्सर्वं सदेवासुरमानुषम् ।
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च

1.4.11

अपसंह्रियते चान्ते संहर्ता च स्वयं हर ।
ब्रह्मा भूत्वासृजद्विष्णुर्जगत्पाति हरिः स्वयम्

1.4.12

रुद्ररूपी च कल्पान्ते जगत्संहरते ऽखिलम् ।
ब्रह्मा तु सृष्टिकाले ऽस्मिञ्जमध्यगतां महीम्

1.4.13

दंष्टूयोद्धरति ज्ञात्वा वारहीमास्थितस्तनूम् ।
देवादिसर्गान्वक्ष्ये ऽहं संक्षेपाच्छृणु शङ्कर !

1.4.14

(1)प्रथमो महतः सर्गो विरूपो ब्रह्मणस्तु सः ।
(2) नन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः

1.4.15

(3)वैकारिकस्तृतीयस्तु सर्गस्त्वैन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः

1.4.16

(4)मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
(5)तिर्यक्स्रोतास्तु यः प्रोक्तस्तिर्यग्योन्यः स उच्यते

1.4.17

(6) तदूर्ध्वस्तोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
(7) ततोर्ऽवाक्स्रोतसां सर्गः सप्तमः स तु मा नुषः

1.4.18

(8)अष्टमो ऽनुग्रहः सर्गः सात्त्विकस्तामसस्तु सः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः

1.4.19

प्राकृतो वैकृतश्चापि (9) कौमारो नवमः स्मृतः ।
स्थावरान्ताः सुराद्यास्तु प्रजा रुद्र ! चतुर्विधाः

1.4.20

ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसाः सुताः ।
ततो देवासुरपितॄन्मानुषांश्च चतुष्टयम्

1.4.21

सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ।
व्यक्तात्मनस्तमोमात्रादुद्रिक्तास्तत्प्रजापतेः

1.4.22

सिसृक्षेर्जघनात्पूर्वमसुरा जज्ञिरे ततः ।
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनूम्

1.4.23

तमोमात्रा तनुस्त्यक्ता शङ्कराभूद्विभावरी ।
यक्षोपक्षांसि तद्देहे प्रीतिमापुस्ततः सुराः

1.4.24

सत्त्वोद्रिक्तास्तु मुखतः संभूता ब्रह्मणो हर ! ।
सत्त्वप्राया तनुस्तेन सन्त्यक्ता साप्यभूद्दिनम्

1.4.25

ततो हि बलिनो रात्रावसुरा देवता दिवा ।
सत्त्वमात्रां तनुं गृह्य पितरश्च ततो ऽभवन्

1.4.26

सा चोत्सृष्टाभवत्सन्ध्या दिननक्तान्तरस्थितिः ।
रजोमात्रां तनुं गृह्य मनुष्यास्त्वभवंस्ततः

1.4.27

सा त्यक्ता चाभवज्ज्योत्स्ना प्राक्सन्ध्या याभिधीयते ।
ज्योत्स्ना रात्र्यहनी सन्ध्या शरीराणि तु तस्य वै

1.4.28

रजोमात्रां तनु गृह्य क्षुदभूत्कोप एव च ।
क्षुत्तृट्क्षामा अमृग्भक्षा राक्षसा रक्षणाच्च ये

1.4.29

यक्षाख्या जक्षणाज्ज्ञेयाः सर्पा वै केशसर्पणात् ।
जाताः कोपेन भूतास्ते गन्धर्वा जज्ञिरे ततः

1.4.30

गायन्तो जज्ञिरे वाचं गन्धर्वाप्सरसश्च ये ।
स्वर्गं द्यौर्वक्षसश्चक्रे सुखतो ऽजाः स मुष्टवान्

1.4.31

सृष्टवानुदराद्राश्च पार्श्वाभ्यां च प्रजापतिः ।
पद्य्भां चैवान्त्यमातङ्गान्महिषोष्ट्राविकांस्तथा

1.4.32

ओपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ।
गौरजः पुरुषो मेध्यो ह्यश्वाश्वतरगर्दभाः

1.4.33

एतान् ग्राम्यान्पशून्प्राहुरारण्यांश्च निबोध मे ।
श्वापदं द्विखुरं हस्तिवानराः पक्षिपञ्चमाः

1.4.34

औदकाः पशवः षष्ठाः सप्तमाश्च सरीसृपाः ।
पूर्वादिभ्यो मुखेभ्यस्तु ऋग्वेदाद्याः प्रजज्ञिरे

1.4.35

आस्याद्वै ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियाः स्मृताः ।
ऊरुभ्यां तु विशः सृष्टाः शूद्रः पद्य्भाम जायत

1.4.36

ब्रह्मलोको ब्राह्मणानां शाक्रः क्षत्त्रियजन्मनाम् ।
मारुतं च विशां स्थानं गान्धर्वं शूद्रजन्मनाम्

1.4.37

ब्रह्मचारिव्रतस्थानां ब्रह्मलोकः प्रजायते ।
प्राजापत्यं गृहस्थानां यथाविहितकारिणाम्

1.4.38

स्थानं सप्तऋषीणां च तथैव वनवासिनाम् ।
यतीनामक्षयं स्थानं यदृच्छागामिनां सदा

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc