गरुड़ पुराण · अध्याय 1.45
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्ममूर्तिध्याननिरूपणं नाम चतुश्चत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 45
हरिरुवाच ।
प्रसंगात्कथयिष्यामि शालग्रामस्य लक्षणम् ।
शालग्रामशिलास्पर्शात्कोटिजन्माघनाशनम्
शखचक्रगदापद्मी (हस्तः) (केशवाख्यो) गदाधरः ।
सब्जकौमादकीचक्रशङ्खी (नारायणो) विभुः
सचक्रशङ्खाब्जगदो (माधवः) श्रीगदाधरः ।
गदब्जशङ्खचक्री वा (गोविन्दो)ऽर्च्यो गदाधरः
पद्मशङ्खारिगादिने (विष्णुरूपाय) ते नमः ।
सशङ्खाब्जगदाचक्र (मधुसूदनमूर्तये)
नमो गदारिशङ्खाब्जयुक्त(त्रैविक्रमाय) च ।
सारिकौमोदकीपद्मशङ्ख(वामनमूर्तये)
चक्राब्जशङ्खगादिने नमः (श्रीधरमूर्तये) ।
(हृषीकेशाया)ऽब्जगदाशङ्खिने चक्रिणे नमः
साब्जचक्रगदाशङ्ख(पद्मनाभस्वरूपिणे) ।
शङ्खचक्रगदापद्मिन् (दामोदर) मनोनमः
सारिशङ्खगदाब्जाय (वासुदेवाय) वै नमः ।
शङ्खाब्जचक्रगादिने नमः (सङ्कर्षणाय) च
सुशङ्खसुगदाब्जारिधृते (प्रद्युम्नमूर्तये) ।
नमो(ऽनिरुद्धाय) गदाशङ्खाब्जारीविधारिणे
साब्जशङ्खगदाचक्र(पुरुषोत्तममूर्तये) ।
नमो(ऽधोक्षजरूपाय) गदाशङ्खारिपद्मिने
(नृसिंहमूर्तये) पद्मगदाशङ्खारिधारिणे ।
पद्मारिशङ्खगदिने नमो ऽ(स्त्वच्युतमूर्तये)
सशङ्कचक्राब्जगदं (जनार्दन) मिहानये ।
(उपेन्द्रः) सगदः सारिः पद्मशङ्खिन्नमोनमः
सुचक्राब्जगदाशङ्खयुक्ताय (हरिमूर्तये) ।
सगदाब्जारिशङ्खाय नमः (श्रीकृष्णमूर्तये)
शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक् ।
शुक्लाभो(वासुदेवाख्यः) सो ऽव्याद्वः श्रीगदाधरः
लग्नद्विचक्रो रक्ताभः पूर्वभागस्तुपुष्कलः ।
संकर्षणो ऽथ(प्रद्युम्नः) सूक्ष्मचक्रस्तु पीतकः
स दीर्घः सशिरश्छिद्रो यो(ऽनिरुद्धस्तु) वर्तुलः ।
नीलो द्वारि त्रिरेखश्च अथ (नारायणो)ऽसितः
मध्ये गादकृती रेखा नाभिचक्रो (क्र) महोन्नतः ।
पृथुवक्षा (नृसिंहो) वः कपिलो ऽव्यात्त्रिबिन्दुकः
अथवा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणः ।
(वराहः) शक्तिलिङ्गो ऽव्याद्विषमद्वयचक्रकः
नीलस्त्रिरेखः स्थूलो ऽथ (कूर्ममूर्तिः स बिन्दुमान् ।
(कृष्णः) स वर्तुलावर्तः पातु वो नतपृष्ठकः
(श्रीधरः) पञ्चरेखो ऽव्या (द्वनमाली) गादाङ्कितः ।
(वामनो) वर्तुलो ह्रस्वो वा (रा) मचक्रः सुरेश्वरः
नानावर्णो ऽनेकमूर्तिर्नागभोगी (त्वनन्तकः) ।
स्थूलो (दामोदरो) नीलो मध्येवक्रः सुनीलकः
संकीर्णद्वारकः सो ऽव्यादथ ब्रह्मा सुलोहितः ।
सदीर्घरेखः सुषिर एकचक्राम्बुजः पृथुः
पृथुच्छिद्रः स्थूलचक्रः(कृष्णो) (विष्णुश्च) बिल्ववत् ।
(हयग्रीवो) ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः
(वैकुण्ठो मणिरत्नाभ एकचक्राम्बुजो ऽसितः ।
(मत्स्यो) दीर्घो ऽम्बुजाकारो द्वाररेखश्च पातु वः
रामचक्रो दक्षरेखः श्यामोवो ऽव्या (त्त्रिविक्रमः) ।
शालग्रामे द्वारकायां स्थिताय गदिन नमः
एकद्वारश्चतुश्चक्रो वनमालाविभूषितः ।
स्वर्णरेखासमायुक्तो गोष्पदेन विराजितः
कदम्बकुसुमाकारो (लक्ष्मीनारायणो)ऽवतु ।
एकेन लक्षितो योव्याद्रदाधारी (सुदर्शनः)
(लक्ष्मीनारायणो) द्वाभ्यान्त्रिभिर्मूर्ति(स्त्रिविक्रमः) ।
चतुर्भिश्च (चतुर्व्यूहो) (वासुदेवश्च) पञ्चभिः
(प्रद्युम्नः) षडूभिरेव स्यात् (संकर्षण) इतस्ततः ।
(पुरुषोत्तमो)ऽष्टभिः स्या(न्नवव्यूहो) नवाङ्कितः
(दशावतारो) दशभिरनिरुद्धो ऽवतादथ ।
(द्वादशात्मा) द्वादशबिरत ऊर्ध्व(मनन्तकः)
विष्णोर्मूर्तिमयं स्तोत्रं यः पठेत्स दिवं व्रजेत् ।
(ब्रह्मा) चतुर्मुखो दण्डी कमण्डलुयुगान्वितः
(महेश्वरः) प्रञ्चवक्रो दशबाहुर्वृषध्वजः ।
यथायुधस्तथा गौरी चण्डिका च सरस्वती
महालक्ष्मीर्मातरश्च पद्महस्तो (दिवाकरः) ।
गजास्यश्च गणः स्कन्दः षण्मुखोनेकधा गुणाः
एते ऽर्चिताः स्थापिताश्च प्रासादे वास्तुपूजिते ।
धर्मार्थकाममोक्षाद्याः प्राप्यन्ते पुरुषेण च
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0