गरुड़ पुराण · अध्याय 1.44
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपवित्रारोपणं नाम त्रिचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 44
हरिरुवाच ।
पूजयित्वा पवित्राद्यैर्ब्रह्म ध्यात्वा हरिर्भवेत् ।
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम्
यच्छेद्वाङ्मनसं प्राज्ञस्तं यजेज्ज्ञानमात्मनि ।
ज्ञानं महति संयच्छेद्य इच्छेज्ज्ञानमात्मानि
देहेन्द्रियमनोबुद्धिप्राणाहङ्करावर्जितम् ।
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः
स्वप्रकाशं निराकारं सदानं दमनादि यत् ।
नित्यं शुद्धं बुद्धमृद्धं सत्यमानन्दमद्वयम्
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् ।
अहं ब्रह्मेत्यवस्थानं समाधिरपि (रिति) गीयते
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं च सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः
आत्मेन्द्रियमनोयुक्तो भोक्तेत्यार्मनीषिणः ।
यस्तु विज्ञान बाह्मेन युक्तेन मनसा सदा
स तु तत्पदमाप्नोति स हि भूयो न जायते ।
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः
स्वर्धुन्याः पारमाप्नोति तद्विष्णोः परमं पदम् ।
अहिंसादिर्यमः प्रोक्तः शौचादिर्नियमः स्मृतः
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ।
प्रत्याहा रो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम्
मनोधृतिर्धारणा स्थात्समाधिर्ब्रह्मणि स्थितिः ।
पूर्वं चेतः स्थिरं न स्यात्ततोमूर्तिं विचिन्तयेत्
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान् ।
श्रीवत्सकौस्तुभयुतो वनमालाश्रिया युतः
नित्यः शुद्धो भूतियुक्तः सत्यानन्दाह्वयः परः ।
आत्माहं परमं ब्रह्म परमं ज्योतिरेव तु
चतुर्विशतिमूर्तिः स शालग्रामशिलास्थितः ।
द्वारकादिशिलासंस्थो ध्येयः पूज्यो ऽप्यहं च सः
मनसो ऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ।
निष्कामो मुक्तिमाप्नोति मूर्तिं ध्याययंस्तुवञ्जपन्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0