गरुड़ पुराण · अध्याय 1.43
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 43
हरिरुवाच ।
पवित्रारोपणं वक्ष्ये भुक्तिमुक्तिप्रदं हरेः ।
पुरा देवासुरे युद्धे ब्रह्माद्याः शरणं ययुः
विष्णुश्च तेषां देवानां ध्वजं ग्रैवेयकं ददौ ।
एतौ दृष्ट्वा विनङ्क्ष्यन्ति दानवानब्रवीद्धरिः
विष्णूक्ते ह्यब्रवीन्नागो वासुकेरनुजस्तदा ।
वृणीत च वपित्राख्यं वरं चेदं वृषध्वज
ग्रैवेयं हरिदत्तं तु मन्नाम्ना ख्यातिमेष्यति ।
इत्युक्ते तेन ते देवास्तन्नाम्ना तद्वरं विदुः
प्रावृट्काले तु ये मर्त्या नार्चिष्यन्ति पवित्रकैः ।
तेषां सांवत्सरी पूजा विफला च भविष्यति
तस्मात्सर्वेषु देवेषु पवित्रारोपणं क्रमात् ।
प्रतिपत्पौर्णमास्यान्ता यस्य या तिथिरुच्यते
द्वादश्यां विष्णवे कार्यं शुक्ले कृष्णे ऽथ वा हर ।
व्यतीपाते ऽयने चैव चन्दरसूर्यग्रहे शिव
विष्णवे वृद्धिकार्ये च गुरोरागमने तथा ।
नित्यं पवित्रमुद्दिष्टं प्रावृट्काले त्ववश्यकम्
कौशेयं पट्टसूत्रं वा कार्पासं क्षौममेव वा ।
कुशसूत्र द्विजानां स्याद्राज्ञा कौशेयपट्टकम्
वैश्यानां चीरणं क्षौमं शूद्राणां शणवल्कजम् ।
कार्पासं पद्मजं चैव सर्वेषां शस्तमीश्वर
ब्राह्मण्या कर्तितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ।
ओं कारो ऽथ शिवः सोमो ह्यग्निर्ब्रह्या फणी रविः
विघ्नेशो विष्णुरित्येते स्थितास्तन्तुषु देवताः ।
ब्रह्मा विष्णुश्च रुद्रश्च त्रिसूत्रे देवताः स्मृताः
सौवर्णे राजते ताम्रे वैणवे मृन्मये न्यसेत् ।
अङ्गुष्ठेन चतुः षष्टिः श्रेष्ठं मध्यं तदर्धतः
तदर्धा तु कनिष्ठा स्यात्सूत्रमष्टोत्तरं शतम् ।
उत्तमं मध्यमं चैव कन्यसं पूर्ववत्क्रमात्
उत्तमोंऽगुष्ठमानेन मध्यमो मध्यमेन तु ।
कन्यसे च कनिष्ठेन अङ्गुल्या ग्रन्थयः स्मृताः
विमाने स्थण्डिले चैव एतत्सामान्यलक्षणम् ।
शिवोद्धृतं पवित्रं तु प्रतिमायां च कारयेत्
हृन्नाभिरू(रु) रुमाने च जानुभ्यामवलम्बिनी ।
अष्टोत्तरसहस्रेण चत्वारो ग्रन्थयः स्मृताः
षट्त्रिं(ड्विं) शच्च चतुर्विशद्द्वादश ग्रन्थयो ऽथवा ।
उत्तमादिषु विज्ञेयाः पर्वभिर्वा पवित्रकम्
चर्चितं कुङ्कुमेनैव हरिद्राचन्दनेन वा ।
सोपवासः पवित्रन्तु पात्रस्थमधिवासयेत्
अश्वत्थपत्रपुटके अष्टदिक्षु निवेशितम् ।
दण्डकाष्ठं कुशाग्रं च पूर्वे सङ्कर्षणेन तु
रोचनाकुङ्कुमेनव प्रद्युम्नेन तु दक्षिणे ।
युद्धार्थो फलसिद्ध्यर्थमनिरुद्धेन पश्चिमे
चन्दनं नीलयुक्तं च तिलभस्माक्षतं तथा ।
आग्नेयादिषु कोणेषुर् श्यादीनां तु क्रमान्न्यसेत्
पवित्रं वासुदेवेन अभिमन्त्र्य सकृत्सकृत् ।
दृष्ट्वा पुनः प्रपूज्याथ वस्त्रेणाच्छाद्य यत्नतः
देवस्य पुरतः स्थाप्यं प्रतिमामण्डलस्य वा ।
पश्चिमे दक्षिणे चैव उत्तरे पूर्ववत्क्रमात्
ब्राह्मादींश्चापि संस्थाप्य कलशं चापि पूजयेत् ।
अस्त्रेण मण्डलं कृत्वा नैवेद्यञ्च समर्पयेत्
अधिवास्य पवित्रं तु त्रिसूत्रेण नवेन वा (च) ।
वेदिकां वेष्टयित्वा तु आत्मानंम कलशं घृतम्
अग्निकुण्डं विमानं च मण्डपं गृहमेव च ।
सूत्रमेकं तु संगृह्य दद्याद्देवस्य मृर्धानि
दत्त्वा पठेदिमं मन्त्रं पूजयित्वा महेश्वरम् ।
आवाहितो ऽसि देवेश पूजार्थं परमेश्वर
तत्प्रभातेर्ऽचयिष्यामि सामग्याः सन्निधौ भव ।
एकरात्रं त्रिरात्रं वा अधिवास्य पवित्रकम्
रात्रौ जागरणं कृत्वा प्रातः संपूज्य केशवम् ।
आरोपयेत्क्रमेणैव ज्येष्ठमध्यकनीयसम्
धूपयित्वा पवित्रं तु मन्त्रेणैवाभिमन्त्रयेत् ।
प्रजप्तग्रन्थिकं चैव पूजयेत्कुसुमादिभिः
गायत्त्र्या चार्चितं तेन देवं संपूज्य दापयेत् ।
समं पुत्रकलत्राद्यैः सूत्रपुच्छं तु धारयेत्
विशुद्धग्रन्थिकं रम्यं महापातकनाशनम् ।
सर्वपापक्षयं देव तवाग्रे धारयाम्यहम्
एवं धूपादिनाभ्यर्च्य मध्यमादीन्त्समर्पयेत् ।
पवित्रं वैष्णवं तेजः सर्वपातकनाशनम्
धर्मकामार्थसिद्ध्यर्थं स्वकण्ठे धारयाम्यहम् ।
वनमालां समभ्यर्च्य स्वेन मन्त्रेण दापयेत्
नैवेद्यं विविधं दत्त्वा कुसुमादेर्बलिं हरेत् ।
अग्निं संतर्प्य तत्रापि द्वादशाङ्गुलमानतः
अष्टोत्तरशतेनैव दद्यादेकपवित्रकम् ।
आदौ दत्त्वार्घ्यमादित्ये तत्र चैकं पवित्रकम्
विष्वक्सेनं ततः प्रार्च्य सुरुमर्घ्यादिभिर्हर ।
देवस्याग्रे पठेन्मन्त्रं कृताञ्जलिपुटः स्थितः
ज्ञानतो ऽज्ञानतो वापि पूजनादि कृतं मया ।
तत्सर्वं पूर्णमेवास्तु त्वत्प्रसादात्सुरेश्वर
मणिविद्रुममालभिर्मन्दारकुसुमादिभिः ।
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज
वनमाला यथा देव कौस्तुभं सततं हृदि ।
तद्वत्पवित्रं तन्तूनां मालां त्वं हृदये धर
एवं प्रार्थ्य द्विजान् भोज्य दत्त्वा तेभ्यश्च दक्षिणाम् ।
विसर्जयेत्तु तेनैव सायाह्ने त्वपरे ऽहनि
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मया ।
व्रजेः पवित्रकेदानीं विष्णुलेकं विसर्जितः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0