भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.42

1.42.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वश्यादिसाधिकमन्त्रनिरूपणं नामैकचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 42
हरिरुवाच ।
पवित्रारोपणं वक्ष्ये सिवस्याशिवनाशनम् ।
आचार्यः साधकः कुर्यात्पुत्रकः समयी हर

1.42.2

संवत्सरकृतां पूजां विघ्नेशो हरते ऽन्यथा ।
आषाढे श्रावणे माघे कुर्याद्भाद्रपदे ऽपि वा

1.42.3

सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् ।
ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्तितं च यत्

1.42.4

त्रिगुणं त्रिगुणीकृत्य ततः कुर्यात्पवित्रकम् ।
ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव

1.42.5

अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् ।
धूपयेदीशमन्त्रेण तन्तुदेवा इति (मे) स्मृताः

1.42.6

ओं कारश्चन्द्रमा वह्निर्ब्रह्ना नागः शिखिध्वजः ।
रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः

1.42.7

अष्टोत्तरशतं कुर्यात्पञ्चाशत्पञ्चविंशतिम् ।
रुद्रो ऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश

1.42.8

चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात् ।
प्रकृतिः पौरुषी वीरा चतुर्थो चापराजिता

1.42.9

जया च विजया रुद्रा अजिता च सदाशिवा ।
मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतो ऽथवा

1.42.10

रञ्जयेत्कुङ्कुमाद्यैस्तु कुर्याद्रन्धैः पवित्रकम् ।
सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे

1.42.11

क्षीरादिभिश्च संस्नाप्य लिङ्गं गन्धादिभिर्यजेत् ।
दद्याद्रन्धपवित्रं तु आत्मने ब्रह्मणे हर

1.42.12

पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे ।
पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम्

1.42.13

मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः ।
नैरृतेह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित्

1.42.14

वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज ।
गृहं संवेष्ट्य सूत्रेण दद्याद्रन्धपवित्रकम्

1.42.15

होमं कृत्वा ग्नेय दत्त्वा दद्याद्भूतबलिं तथा ।
आमन्त्रितो ऽसि देवेश गणैः सार्धं महेश्वर

1.42.16

प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव ।
निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि

1.42.17

मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः ।
स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत्

1.42.18

ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् ।
अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ

1.42.19

संहितामन्त्रितान्येव धूपितानि समर्पयेत् ।
शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः

1.42.20

आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोर्ऽचयेत् ।
ओं हौं हौं शिवतत्त्वाय नमः ।
ओं हीं(हीः) विद्यातत्त्वाय नमः

1.42.21

ओं हां (हौः) आत्मतत्त्वाय नमः ।
ओं हां हीं हूं क्षैं सर्वतत्त्वाय नमः ।
कालात्मना त्वया देव यद्दृष्टं मामके विधौ

1.42.22

कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्त च यत्कृतम् ।
सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया

1.42.23

पूरयपूरय मखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ओं हां हीं हूं हैं हौं शिवाय नमः

1.42.24

पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् ।
दत्त्वा वह्नेः (वरे) पवित्रं च गुरवे दक्षिणां दिशेत्

1.42.25

बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc