भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.41

1.41.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 41
वासुदेव उवाच ।
ओं विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्लभामि ते कन्यां समुत्पाद्य तस्मै विश्ववासवे स्वाहा ।
स्त्रीलाभो मन्त्रजाप्याच्च कालरात्रिं वदाम्यहम्

1.41.2

ओं नमो भगवति ऋक्षकर्णि चतुर्भुजे ऊर्ध्वकेशि त्रिनयने कालरात्रि मानुषाणां वसारुधिरभोजने अमुकस्य प्राप्तकालस्य मृत्युप्रदे हुं फट् हनहन दहदह मांसरुधिरं पचपच ऋक्षपत्नि स्वाहा । न तिथिर्न च नक्षत्रं नोपवासो विधीयते

1.41.3

क्रुद्धो रक्तेन संमार्ज्य करौ ताभ्यां प्रगृह्य च ।
प्रदोषे संजपेल्लिङ्गमामपात्रं च मारयेत् ।
ओं नमः सर्वतोयन्त्राण्येतद्यथा जम्भनि मोहनि सर्वशत्रुविदारिणि रक्षरक्ष माममुकं सर्वभयोपद्रवेभ्यः स्वाहा ।
शुक्रे नष्टे महादेव वक्ष्ये ऽहं द्विजपादिह

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc