गरुड़ पुराण · अध्याय 1.36
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीन्यासनिरूपणं नाम पञ्चत्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 36
हरिरुवाच ।
सन्ध्याविधिं प्रवक्ष्यामि शृणु रुद्राघनाशनम् ।
प्राणायामत्रयं कृत्वा सन्ध्यास्नानमुपक्रमेत्
सप्रणवां सव्याहृतिं गायत्त्रीं शिरसा सह ।
त्रिः पठेदायतप्रणः प्राणायामः स उच्यते
मनोवाक्रायजं दोषं प्राणायामैर्दहेद्द्विजः ।
तस्मात्सर्वेषु कालेषु प्राणायामपरो भवेत्
सायमग्निश्च मेत्युक्ता प्रातः सूर्येत्यपः पिबेत् ।
आपः पुनन्तु मध्याह्ने उपस्पृश्य यथाविधि
आपोहिष्ठेत्यृचा कुर्यान्मार्जनं तु कुशोदकैः ।
प्रणवेन तु संयुक्तं क्षिपेद्वारि पदेपदे
रजस्तमः स्वमोहोत्थाञ्जाग्रत्स्वप्नसुषुप्तिजान् ।
वाङ्मनः कर्मजान्दोषान्नवैतान्नवभिर्दहेत्
समुद्धृत्योदकं पाणौ जप्त्वा च द्रुपदां क्षिपेत् ।
त्रिपडष्टौ द्वादशधा वर्तयेदघमर्पणम्
उदुत्यञ्चित्रमित्याभ्यामुपतिष्ठेद्दिवाकरम् ।
दिवा रात्रौ च यत्पापं सर्वं नश्यति तत्क्षणात्
पूर्वसंध्यां जपंस्तिष्ठेत्पश्चिमामुपविश्य च ।
महाव्याहृतिसंयुक्तां गायत्त्रीं प्रणवान्विताम्
दशभिर्जन्मजनितं शतेन तु पुरा कृतम् ।
त्रियुगं तु सहस्रेण गायत्त्री हन्ति दुष्कृतम्
रक्ता भवति गायत्त्री सावित्री शुक्लवर्णिका ।
कृष्णा सरस्वती ज्ञेया संध्यात्रयमुदाहृतम्
ओं भूर्विन्यस्य हृदये ओं भुवः शिरसि न्यसेत् ।
ओं स्वरिति शिखायां च गायत्त्र्याः प्रथमं पदम्
विन्यसेत्कवचे विद्वान्द्वितीयं नेत्रयोर्न्यसेत् ।
तृतीयेनाङ्गविन्यासं चतुर्थं सर्वतो न्यसेत्
संध्याकाले तु विन्यस्य जपेद्वै वेदमातरम् ।
शिवस्तस्यास्तु सर्वाह्ने प्राणायामपरं न्यसेत्
त्रिपदा या तु गायत्त्री ब्रह्मविष्णुमहेश्वरी ।
विनियोगमृषिच्छन्दो ज्ञात्वा तु जपमारभेत्
सर्वपापविनिर्मुक्तो ब्रह्मलोकमवाप्नुयात् ।
परोरजसि सावदों तुरीयपदमीरितम्
तं हन्ति सूर्यः सन्ध्यायां नोपास्तिं कुरुते तु यः ।
तुरीयस्य पदस्यापि ऋषिर्निर्मल एव च
छन्दस्तु देवी गायत्त्री परमात्मा च देवता
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0