गरुड़ पुराण · अध्याय 1.37
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे संध्याविधिर्नाम षट्त्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 37
हरिरुवाच ।
गायत्त्री परमा देवी भुक्तिमुक्तिप्रदा च ताम् ।
यो जपेत्तस्य पापानिविनश्यन्ति महान्त्यपि
गायत्त्रीकल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तत् ।
अष्टोत्तरं सहस्रं वा अथवाष्टशतं जपेत्
त्रिसन्ध्यं ब्रह्मलोकीस्याच्छतं जप्त्वा जलं पिबेत् ।
संध्यायां सर्वपापघ्नीं देवीमावाह्य पूजयेत्
भूर्भुवः स्वः स्वमन्त्रेण युतां द्वादशनामभिः ।
गायत्र्यै नमः ।
सावित्र्यै सरस्वत्यै नमोनमः
वेदमात्रे च सांकृत्यै ब्रह्माणी कौशिकी क्रमात् ।
साध्व्यै सर्वार्थसाधिन्यै सहस्राक्ष्यै च भूर्भुवः
स्वरेवं जुहुया दग्नौ समिदाज्यं हविष्यकम् ।
अष्टोत्तरसहस्रं वाप्यथवाष्टशन्त घृतम्
धर्मकामादिसिद्ध्यर्थं जुहुयात्सर्वकर्मसु ।
प्रतिमां चन्दनस्वर्णनिर्मितां प्रतिपूज्य च
यथा लक्षं तु जप्तव्यं पयोमूलफलार्शनैः ।
अयुतद्वयहोमेन सर्वकामानवाप्नुयात्
उत्तरे शिखरे जाता भूम्यां पर्वत वासिनी ।
ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0