भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.35

1.35.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 35
हरिरुवाच ।
न्यासादिकं प्रवक्ष्यामि गायत्त्र्याः शृणु शङ्कर ।
विश्वामित्रऋषिश्चैव सविता चाथ देवता

1.35.2

ब्रह्मशीर्षा रुद्रशिखा विष्णोर्हृदयसंश्रिता ।
विनियोगैकनयना कात्यायनसगोत्रजा

1.35.3

त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षिसंस्थिता ।
एवं ज्ञात्वा तु गायत्त्रीं जपेद्द्वादशलक्षकम्

1.35.4

त्रिपदाष्टाक्षरा ज्ञेया चतुष्पादा षडक्षरा ।
जेप च त्रिपदा ग्रोक्ता अर्चने च चतुष्पदा

1.35.5

न्यासे जपे तथा ध्याने अग्निकार्ये तथार्चने ।
गायत्त्रीं विन्यसेन्नित्यं सर्वपापग्रणाशिनीम्

1.35.6

पादांसुष्ठे गुल्फमध्ये जङ्घयोर्विद्धि जानुनोः ।
ऊर्वोर्गुह्ये च वृषणे नाड्यां नाभौ तनूदरे

1.35.7

स्तनयोर्हृदि कण्ठौष्ठमुखे तालुनि चांसयोः ।
नेत्रे भुवार्ललाटे च पूर्वस्यां दक्षिणोत्तरे

1.35.8

पश्चमे मूर्ध्नि चाकारं न्यसेद्वर्णान्वदाम्यहम् ।
इन्द्रनीलं च वह्निं च पीतं श्यामं च कापिलम्

1.35.9

श्वेतं विद्युत्प्रभं तारं कृष्णं रक्तं क्रमेण तत् ।
श्यामं शुक्लं तथा पीतं श्वेतं वै पद्मरागवत्

1.35.10

शङ्खवर्णं पाण्डुरं च रक्तं चासवसन्निभम् ।
अर्कवर्णसमं सौम्यं शङ्खाभं श्वेतमेव च

1.35.11

यद्यत्स्पृशति हस्तेन यच्च पश्यति चक्षुषा ।
पूतं भवति तत्सर्वं गायत्त्र्या न परं विदुः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc