भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.34

1.34.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सुदर्शनपूजाविधिर्नाम त्रयस्त्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 34
रुद्र उवाच ।
पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर ।
शृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम्

1.34.2

हरिरुवाच ।
हयग्रीवस्य देवस्य पूजनं कथयामि ते ।
तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति

1.34.3

मूलमन्त्रं महादेव हयग्रीवस्य वाचकम् ।
प्रवक्ष्यामि परं पुण्यं तदादौ शृणु शङ्कर

1.34.4

ओं सैं क्षैं शिरसे नमः इति प्रणवसंयुतः ।
अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः

1.34.5

अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज ।
ओं क्षां हृदयाय नमः ।
ओं क्षीं शिरसे स्वाहाशिरः प्रोक्तं क्षूं वषट् तथा

1.34.6

ओं कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज ।
ओं क्षैं कवचाय हुं वै कवचं परिकीर्तितम्

1.34.7

ओं क्षैं नेत्रत्रयाय वौषट् नेत्रं देवस्य कीर्तितम् ।
ओं हः अस्त्राय फट् अस्त्रं देवस्य कीर्तितम्

1.34.8

पूजाविधिं प्रवक्ष्यामि नन्मे निगदतः शृणु आदौ स्नात्वा तथाचम्य ततो यागगृहं व्रजेत्

1.34.9

ततः प्रविश्य विधिवत्कुर्याद्वं शोषणादिकम् ।
यं क्षैं रमिति बीजैश्च कठिनीकृत्य लमिति

1.34.10

अण्डमुत्पाद्य च ततः ओं कारेणैव भेदयेत् ।
अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत्

1.34.11

शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् ।
गोक्षीरसदृशं तद्वत्सूर्यकोटिसमग्रभम् ।
शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम्

1.34.12

किरीटिनं कुण्डलिनं वनमालासमंन्वितम् ।
सुचक्रं सुकपोलं च षीताम्बरधरं विभुम्

1.34.13

भावयित्वा महात्मानं सर्वदेवैः समन्वितम् ।
अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा

1.34.14

ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् ।
ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर

1.34.15

ततश्चावाहयेद्रुद्र देवता आसनस्य याः ।
ओं हयग्रीवासनस्य आगच्छत च देवताः

1.34.16

आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके ।
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज

1.34.17

समस्तपरिवाराय अच्युताय नम इति ।
अस्य मध्येर्ऽचनं कार्यं द्वारे गङ्गाञ्च पूजयेत्

1.34.18

यमुनां च महादेवीं शङ्खपद्मनिधी तथा ।
गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत्

1.34.19

आधाराख्यां महादेव ततः कूर्मं समर्चयेत् ।
अनन्तं पृथिवीं पश्चाद्धर्मज्ञाने(नौ) ततो ऽचयेत्

1.34.20

वैराग्यमथ चैश्वर्यमाग्नेयादिषु पूजयेत् ।
अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस्तु पूर्वतः

1.34.21

सत्त्वं रजस्तमश्चैव मध्यदेशे ऽथ पूजयेत् ।
कन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत्

1.34.22

अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् ।
मध्यदेशे प्रकर्तव्यमिति रुद्र प्रकीर्तितम्

1.34.23

विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज ।
प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः

1.34.24

पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः ।
अनुग्रहा कर्णिकायां पूज्या श्रेयो ऽर्थिभिर्नरैः

1.34.25

प्रणवाद्यैर्नमो ऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः ।
मन्त्रैरेभिर्महादेव आसनं परिपूजयेत्

1.34.26

स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः ।
दीपनैवेद्यदानेन आसनस्यार्चनं शुभम्

1.34.27

कर्तव्यं विधिनानेन इति ते हर कीर्तितम् ।
ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम्

1.34.28

वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् ।
आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर

1.34.29

आवाहनं प्रकर्तव्यं देवदेवस्य शङ्खिनः ।
आवाह्यमण्डले तस्य न्यासं कुर्यादतन्द्रितः

1.34.30

न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् ।
हयग्रीवं महादेवं सुरासुरनमस्कृतम्

1.34.31

इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम् ।
द्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः

1.34.32

पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे ।
स्नापयेच्च ततो देवं पद्मनाभमनामयम्

1.34.33

देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज ।
ततो ह्याचमनं दद्यादुपवीतं ततः शुभम्

1.34.34

ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम् ।
ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर

1.34.35

दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर ।
ओं क्षां हृदयाय नमः अनेन हृदयं यजेत्

1.34.36

ओं क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् ।
ओं क्षूं शिखायै नमश्च शिखामेतेन पूजयेत्

1.34.37

ओं क्षैं कवचाय नमः कवचं परिपूजयेत् ।
ओं क्षैं नेत्राय नमश्च नेत्रं चानेन पूजयेत्

1.34.38

ओं क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत् ।
हृदयं च शिरश्चैव शिखां च कवचं तथा

1.34.39

पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् ।
कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्यै प्रपूजयेत्

1.34.40

पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् ।
शङ्खं पद्मं तथा चक्रं गदां पूर्वादितोर्ऽचयेत्

1.34.41

खड्गं च मुसलं पाशमङ्कुशं सशरं धनुः ।
पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः

1.34.42

श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् ।
पूजयेत्पूर्वतो रुद्र शङ्खचक्रगदाधरम्

1.34.43

ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा ।
गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा

1.34.44

इन्द्रं सवाहनं चाथ परिवारयुतं तथा ।
अग्निं यमं निरृतिं च वरुणं वायुमेव च

1.34.45

सोममीशानमेवं वै ब्रह्माणं परिपूजयेत् ।
पूर्वादिकोर्ध्वपर्यन्तं पूजयेद्वृषभध्वज

1.34.46

वज्रं शक्तिं तथा दण्डं खङ्गं पाशं ध्वजं गदाम् ।
त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत्

1.34.47

विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् ।
एभिर्मन्त्रैर्नमो ऽन्तैश्च प्रणवाद्यैर्वृषध्वज

1.34.48

पूजा कार्या महादेव ह्यनन्तस्य वृषध्वज ।
देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज

1.34.49

गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ।
प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत्

1.34.50

स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज ।
ओं नमो हयशिरसे विद्याध्यक्षाय वै नमः

1.34.51

नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः ।
नमः शान्ताय देवाय त्रिगुणायात्मने नमः

1.34.52

सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने ।
सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः

1.34.53

नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च ।
नम आद्याय दान्ताय सर्वसत्त्वहिताय च

1.34.54

त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे ।
कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमोनमः

1.34.55

इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् ।
हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम्

1.34.56

सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् ।
हयग्रीवोमहीशेशं परमात्मानमव्ययम्

1.34.57

इति ते कथिता पूजा हयग्रीवस्य शङ्कर ।
यः पठेत्परया भक्त्या स गच्छेत्परमं पदम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc