भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.33

1.33.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पञ्चतत्त्वा(विष्णवर्) च नविधिर्नाम द्वात्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 33
रुद्र उवाच ।
सुदर्शनस्य पूजां मे वद शङ्खगदाधर ।
ग्रहरोगादिकं सर्वं यत्कृत्वा नाशमेति वै

1.33.2

हरिरुवाच ।
सुदर्शनस्य चक्रस्य शृणु पूजां वृषध्वज ।
स्नानमादौ प्रकुर्वीत पूजयेच्च हरिं तत

1.33.3

मूलमन्त्रेण वै न्यासं मूलमन्त्रं शृणुष्वच ।
सहस्रारं हुं फट् नमो मन्त्रः प्रणवपूर्वकः

1.33.4

कथितः सर्वदुष्टानां नाशको मन्त्रभेदकः ।
ध्यायेत्मुदर्शनं देवं हृदि पद्मे ऽमले शुभे

1.33.5

शङ्कचक्रगदापद्मधरं सौम्यं किरीटिनम् ।
आवाह्य मण्डले देवं पूर्वोक्तविधिना हर

1.33.6

पूजयेद्रन्धपुष्पाद्यैरुपचारैर्महेश्वर ।
पूजयित्वा जपेन्मन्त्रं शतमष्टोत्तरं नरः

1.33.7

एवं यः कुरुते रुद्र ! चक्रस्यार्चनमुत्तमम् ।
सर्वरोगविनिर्मुक्तो विष्णुलोकं समाप्नुयात्

1.33.8

एतत्स्तोत्रं जपेत्पश्चात्सर्वव्याधिविनाशनम् ।
नमः सुदर्शनायैव सहस्रादित्यवर्चसे

1.33.9

ज्वालामालाप्रदीप्ताय सहस्राराय चक्षुषे ।
सर्वदुष्टविनाशाय सर्वपातकमर्दिने

1.33.10

सुचक्राय विचक्राय सर्वमन्त्रविभेदिने ।
प्रसवित्रे जगद्धात्रे जगद्विध्वंसिने नमः

1.33.11

पालनार्थाय लोकानां दुष्टासुरविनाशिने ।
उग्राय चैव सौम्याय चण्डाय च नमोनमः

1.33.12

नमश्चक्षुः क्वरूपाय संसारभयभेदिने ।
मायापञ्जरभेत्रे च शिवाय च नमोनमः

1.33.13

ग्रहातिग्रहरूपाय ग्रहाणां पतेय नमः ।
कालाय मृत्यवे चैव भीमाय च नमोनमः

1.33.14

भक्तानुग्रहदात्रे च भक्तगोप्त्रे नमोनमः ।
विष्णुरूपाय शान्ताय चायुधानां धराय च

1.33.15

विष्णुशस्त्राय चक्राय नमो भूयो नमोनमः ।
इति स्तोत्रं महापुण्यं चक्रस्य तव कीर्तितम्

1.33.16

यः पठेत्परया भक्त्या विष्णुलोकं स गच्छति ।
चक्रपूजाविधिं यश्च पठेद्रुद्र जितोन्द्रियः ।
स पापं भस्मसात्कृत्वा विष्णुलोकाय कल्पते

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc