भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.29

1.29.1

मुकुटं वलमालां च ऐन्द्राद्यान्ध्वजमुख्यकान् ।
कुमुदाद्यान्विष्वक्सेनं श्रिया कृष्णं सहार्चयेत् ।
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात् ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 29
हरिरुवाच ।
त्रैलोक्यमोहिनीं वक्ष्ये पुरुषोत्तममुख्यकाम् ।
पूजामन्त्राञ्छ्रीधराद्यान्धर्ंमकामादिदायकान्

1.29.2

ओं ह्रीं श्रीं क्लीं ह्रूं ओं नमः ।
पुरुषोत्तम अप्रतिरूप लक्ष्मीनिवास जगत्क्षोभण सर्वस्त्रीहृदयदारण त्रिभुवनमदोन्मादनकर सुरासुरमनुज सुंदरी जनमनांसि तापयतापय शोषयशोषय मारयमारय स्तम्भयस्तम्भय द्रावयद्रावय आकर्षय आकर्षय,परमसुभग सर्वसौभाग्यकर सर्वकामप्रद अमुकं हनहन चक्रेण गदया खड्गेन सर्वबाणैर्भिधिभिन्धि पाशेन कुट्टकुट्ट अङ्कुशेन ताडयताडय तुरुतुरु किं तिष्ठसि तारयतारय यावत्समीहितं मे सिद्धं भवति ह्रीं (ह्रूं) फट् नमः

1.29.3

ओं श्रीं (श्रीः) श्रीधराय त्रैलोक्यमोहनाय नमः ।
क्लीं पुरुषोत्तमाय त्रैलोक्यमोहनाय नमः

1.29.4

ओं विष्णवे त्रैलोक्यमोहनाय नमः ।
ओं श्रीं क्लीं त्रैलोक्यमोहनाय विप्णवे नमः

1.29.5

त्रैलोक्यमोहना मन्त्राः सर्वे सर्वार्थसाधकाः ।
सर्वे चिन्त्या पृथग् वापि व्यासात्संक्षेपतो ऽथ वा

1.29.6

आसनं मूर्तिमन्त्रं च होमाद्यङ्गषडङ्गकम् ।
चक्रं गदां च खड्गं च मुसलं शंमखशर्ङ्गकम्

1.29.7

शरं पाशं चाङ्कुशं च लक्ष्मीगरुडसंयुतम् ।
विष्वक्सेनं विस्तराद्वानरः सर्वमवाप्नुयात्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc