भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.28

1.28.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नागादिविविधविषहर मन्त्रनिरूपणं नाम सप्तविंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 28
सूत उवाच ।
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् ।
द्वारे धाता विधाता च गङ्गायमुनया सह

1.28.2

शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया ।
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ

1.28.3

पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् ।
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती

1.28.4

क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् ।
सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत्

1.28.5

पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् ।
ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्ंमकम्

1.28.6

अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः ।
ऐश्वर्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे

1.28.7

सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे ।
तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम्

1.28.8

विद्यातत्त्वं परं तत्त्व सूर्येदुवह्निमण्डलम् ।
विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत्

1.28.9

गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते ।
अङ्गानि यथा-आच क्रं च सुचक्रं च विचक्रं च तथैच

1.28.10

त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम् ।
हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः

1.28.11

रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि ।
लक्ष्मणा मित्रविन्दा च जाम्बवत्या शुशीलया

1.28.12

शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् ।
खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc