गरुड़ पुराण · अध्याय 1.24
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चननिरूपणं नाम त्रयोविंशो ऽध्यायः
(इति शिवादिपूजा समाप्ता) ।
श्रीगरुडमहापुराणम्- 24
सूत उवाच ।
वक्ष्ये गणादिकाः पूजाः सर्वदा स्वर्गदाः पराः ।
गणासनं गणमूर्ति गणाधिपतिमर्चयेत्
गामादिहृदयाद्यङ्गं दुर्गाया गुरुपादुकाः ।
दुर्गासनं च तन्मूर्तिं ह्रीं दुर्गे रक्षणीति च
त्दृदादिकं नव शक्त्यो रुद्रचण्डा प्रचण्डया ।
चण्डोग्रा चण्डनायिका चण्डा चण्डवती क्रमात्
चणारूपा चण्डिकाख्या दुर्गेदुर्गे ऽथ रक्षिणि ।
वज्रखड्गादिका मुद्राः शिवाद्या वह्निदेशतः
सदाशिवमहाप्रेतपद्मासन मथापि वा ।
ऐं क्लीं (ह्रीं) सौस्त्रिपुरायै नमः ।
ओं ह्रां ह्रीं क्षें क्षैं स्त्रीं स्कीं रों स्फें स्फीं शां पद्मासनं च मूर्तिं च त्रिपुरात्दृदयादिकम्
पीठाम्बुजे तु ब्राहयादीर्ब्रह्माणी च महेश्वरी ।
कौमारी वैष्णवी पूज्या वाराही चेन्द्रदेवता
चामुण्डा चण्डिका पूज्या भैरवाख्यांस्ततो यजेत् ।
असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्तभैरवः
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः ।
रतिः प्रीतिः कामदेवः पञ्च बाणाश्च योगिनी
वटुकं दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः ।
पद्मगर्भे मण्डले च त्रिकोणे चिन्तयेद्धृदि
शुक्लां वरदाक्षसूत्रपुस्ताभयसमन्विताम् ।
लक्षजप्याच्च होमाच्च त्रिपुरा सिद्धिदा भवेत्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0