गरुड़ पुराण · अध्याय 1.23
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चनप्रकारो नाम द्वाविंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 23
सूत उवाच ।
शिवार्चनं प्रवक्ष्यामि धर्ंमकामादिसाधनम् ।
त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः
ओं हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा ।
ओं हूं शिवतत्त्वाय स्वाहा हृदा स्याच्छ्रोत्रवन्दनम्
भस्मस्नानं तर्पणं च ओं हां स्वाहा सर्वमन्त्रकाः ।
सर्वे देवाः सर्वमुनिर्नमो ऽन्तो वौषडन्तकः
स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः ।
ओं हां प्रपितामहेभ्यस्तथा मातामहादयः
हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः ।
आचामं मार्जनं चाथो गायत्रीं च जपेत्ततः
ओं हां तन्महेशाय विद्महे,वाग्विशुद्धाय धीमहि, तन्नो रुद्रः प्रचोदयात्
सूर्योपस्थानकं कृत्वा सूर्यमन्त्रैः प्रपूजयेत् ।
ओं हां हीं हूं हैं हौं हः शिवसूर्याय नमः ।
ओं हं खखोल्काय सूर्यमूर्तये नमः ।
ओं ह्रां ह्रीं सः सूर्याय नमः
दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत् ।
अग्नयादौ विमलेशानमाराध्य परमं सुखम्
यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें ।
भद्रां च रैं विभूतिं रों विमलां रौममोधि (रोधि) काम्
रं विद्युतां च पूर्वादौ रा (रं) मध्ये सर्वतोमुखीम् ।
अर्कासनं सूर्यमूर्तें ह्रां ह्रूं (ह्रीं) सः सूर्यमर्चयेत्
ओं आं हृदर्काय च शिरः शिखा च भूर्भुवः स्वरोम् ।
ज्वालिनीं ह्रं कवचस्य चास्त्रं राज्ञां च दीक्षिताम्
यजेत्सूर्यहृदा सर्वान्सों सोमं मं च मङ्गलम् ।
बं बुधं बृं बृहस्पतिं भं भार्गवं शं शनैश्चरम्
रं राहुं कं यजेत्केतुं ओं तेजश्चण्डमर्चयेत् ।
सूर्यमभ्यर्च्य चाचम्य कनिष्ठातो ऽङ्गकांन्यसेत्
हां हृच्छिरो हूं शिखा हैं वर्ंम हौं चैव नेत्रकम् ।
हो ऽस्त्रं शक्तिस्थितिं कृत्वा भूतशुद्धिं पुनर्न्यसेत्
अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत्
आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः ।
द्वारे नन्दिमहाकालौ गङ्गा च यमुनाथ गौः
श्रीरस्त्रं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् ।
शक्त्यनन्तौ यजेन्मध्ये पूर्वादौ धर्ंमकादिकम्
अधर्ंमाद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके ।
वामाज्येष्ठा च पूर्वादौ रौद्री काली च पूर्षदः
ओं हौं कलविकरिण्यै बलविकरिणी ततः ।
बलप्रमथिनी सर्वभूतानां दमनी ततः
मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः ।
शिवासनं महामूर्ति मूर्तिमध्ये शिवाय च
आवाहनं स्थापनं च सन्निधानं निरोधनम् ।
सकलीकरणं मुद्रादर्शनं चार्घ्यपाद्यकम्
आचामाभ्यङ्गमुद्वर्तं स्नानं निर्ंमथनं चरेत् ।
वस्त्रं विलेपनं पुष्पं धूपं दीपं चरुं ददेत्
आचामं मुखवासं च ताम्बूलं हस्तशोधनम् ।
छत्रचामरपावित्रं परमीकरणं चरेत्
रूपक्पेन चैकाहजपो जाप्यसमर्पणम् ।
स्तुतिर्नतिर्हृदाद्यैश्च ज्ञेयं नामाङ्ग पूजनम्
अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम् ।
इन्द्राद्यांश्च यजेच्चण्डं तस्मै निर्माल्यमर्पयेत्
गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव तत्प्रसादात्त्वयि स्थितिः
यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम् ।
तन्मे शिवपदस्थस्य रुद्र क्षपय शङ्कर
शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ।
शिवो जयति सर्वत्र यः शिवः सो ऽहमेव च
यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव(तस्तवम्) ।
त्वं त्राता विश्वनेता च नान्योनाथो ऽस्तिमेशिव
अथान्येन प्रकारेण शिवपूजां वदाम्यहम् ।
गणः सरस्वती नन्दी महाकालो ऽथगङ्गया
पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे ।
इन्द्राद्याः पूजनीयाश्च तत्त्वानि पृथिवी जलम्
तेजो वायुर्व्योम गन्धो रसरूपे च शब्दकः ।
स्पर्शो वाक् पाणि पादं च पायूपस्थं श्रुतित्वचम्
चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि ।
पुमान्नागो बुद्धिविद्ये कला कालो नियत्यपि
माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः ।
शक्तिः शिवश्च ताञ्ज्ञात्वा मुक्तो ज्ञानी शिवो भवेत्
यः शिवः स हरिर्ब्रह्मा सो ऽहं ब्रह्मास्मि शङ्कर
भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत् ।
हृत्पद्मे सद्योमन्त्रः स्यान्निवृत्तिश्च कला इडा
पिङ्गला द्वे च नाड्यौ तु प्राणो ऽपानश्च मारुतौ ।
इन्द्रो देहो ब्रह्महेतुश्चतुरस्त्रं च मण्डलम्
वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः ।
त्दृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम्
ओं ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् ।
ओं ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट् ।
चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम्
तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत् ।
अधोमुखीं ततः पृथ्वीं तत्तच्छुध्दं भवेद्ध्रुवम्
वामा देवी प्रतिष्ठा च सुषुम्ना धारिका तथा ।
समानोदानवरुणा देवता विष्णु कारणम्
अद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च ।
एवं कुर्यात्कण्ठपद्ममर्धचन्द्राख्यमण्डलम्
पद्माङ्कितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत् ।
चतुर्नवत्युच्छ्रयं च आत्मानं च अधोमुखम्
तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः ।
नाभ्यो(ड्यो) ष्ठयोर्हस्तिजिह्वाध्यानो नागोग्निदेवता
रुद्रहेतुस्त्रिरुद्धातास्त्रिगुणा रक्तवर्णकम् ।
ज्वालाकृते त्रिकोणं च चतुः कोटिशतानि च
विस्तीर्णं च समुत्सेधं रुद्रतत्त्वं विचिन्तयेत् ।
ललाटे वै तत्पुरुषः शान्तिर्यः शाद्वलं बुधाः (वृषा)
कूर्मश्च कृकरो वायुर्देव ईश्वरकारणम् ।
द्विरुद्धातो गुणौ द्वौ च धूम्रषट्कोणमण्डलम्
बिन्द्वङ्कितं चाष्टकोटिविस्तीर्णं चोच्छ्रयस्तथा ।
चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत्
द्वादशति सरसिजे शान्त्य तीतास्तथेश्वराः ।
कुहूश्च शङ्खिनी नाड्यो देवदत्तो धनञ्जयः
शिखैशानकारणं च सदाशिव इति स्मृतः ।
गुण एकस्तथोद्धातः शुद्धस्फटिकवत्स्मरेत्
षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम् ।
वर्तुलं चिन्तयेव्द्योम भुतशुद्धिरुदाहृता
गुणयो गुरुर्बोजगुरुः शक्तयनन्तौ च धर्ंमकः ।
ज्ञानवैराग्यमैश्वर्यैस्ततः पूर्वादिपत्रके
अधोर्ध्ववदने द्वे च पद्मकर्णिककेसरम् ।
वामाद्या आत्मविद्या च सदा ध्यायेच्छिवाख्यकम्
तत्त्वं शिवासने मूर्तिर्हे हौं विद्यादेहाय नमः ।
बद्धपद्मासनासीनः सितः षोडशवार्षिकः
पञ्चवक्त्रः कराग्रैः स्वैर्दशभिश्चैव धारयन् ।
अभयं प्रसादं शक्तिं शूलं खट्वाङ्गमीश्वरः
दक्षैः करैर्वामकैश्च भुजङ्गं चाक्षसूत्रकम् ।
डमरुकं नीलोत्पलं बीजपूरकमुत्तमम्
इच्छाज्ञानक्रियाशक्तिस्त्रिनेत्रो हि सदाशिवः ।
एवं शिवार्चनध्यानी सर्वदा कालवर्जितः
इहाहोरा वचारेण त्रीणि वर्षाणि जीवति ।
दिनद्वयस्य चारेण जीवेद्वर्षद्वयं नरः
दिनत्रयस्य चारेण वर्षमेकं स जीवति ।
नाकाले शीतले मृत्युरुष्णे चैव तु कारके
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0