भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.25

1.25.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नम् चतुर्विशो ऽध्यायः
श्रीगरुडमहापुराणम्- 25
सूत उवाच ।
ऐं क्रीं श्रीं स्फें क्षैं अनन्तशक्तिपादुकां पूजयामि नमः

1.25.2

ऐं श्रीं फ्रैं क्षैं आधारशक्तिपादुकां पूजयामि नमः ।
ओं ह्रं कालाग्निरुद्रपादुकां पूजयामि नमः

1.25.3

ओं ह्रीं हुं हाटकेश्वरदेवपादुकां पूजयामि नमः ।
ओं ह्रीं शेषभट्टारकपादुकां पूजयामि नमः

1.25.4

ओं ह्रीं श्रीं पूथिवीतत्सवर्णभुवनद्वीपसमुद्रदिशामनन्ताख्यमासनं पद्मासनं पूजयामि नमः

1.25.5

ह्रीं श्रीं निवृत्त्यादि कला पृथिव्यादितत्त्व मनन्तादिभुवनमोङ्कारादिवर्णम् ।
हकारादिनवात्मकपदः सद्योदातादिमन्त्रः ह्रां हृदयाद्यङ्गः ।
एवं मन्त्रमहेश्वर सिद्धविद्यात्मकः परामृतार्णवः सर्वभूतो दिक्समस्तषडङ्गः सदाशिवार्णवपयः पूर्णोदधिपक्षश्रीमानास्पदात्मकः विद्योमापूर्णज्ञत्वकर्तृत्वलक्षणज्येष्ठाचक्ररुद्रशक्त्यात्मककर्णि कः ।
नवशक्तिशिवादिभिर्मूलमण्डलत्रयकुजात्मकोत्पन्नापद्मासनपादुकां पूजयामि नमः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc