गरुड़ पुराण · अध्याय 1.22
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डं पञ्चवक्क्रपूजनं नामैकविंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 22
सूत उवाच ।
शिवार्चनं प्रवक्ष्यामि बुक्तिमुक्तिकरं परम् ।
शान्तं सर्वगतं शून्यं मात्राद्वादशके स्थितम्
पञ्च वक्क्राणि ह्रस्वानि दीर्घाण्यङ्गानि बिन्दुना ।
सविसर्गं वदेदस्त्रं शिव ऊर्घ्वं तथा पुनः
षष्ठेनाधो महामन्त्रो हौमित्येवाखिलार्थदः ।
हस्ताभ्यां संस्पृशेत्पादावूर्ध्वं पादान्मस्तकम्
महामुद्रा हि सर्वेषां कराङ्गन्यासमाचरेत् ।
तालहस्तेन पृष्ठं च अस्त्रमन्त्रेण शोधयेत्
कनिष्ठामादितः कृत्वा तर्जन्यङ्गानि विन्यसेत् ।
पूजनं संप्रवक्ष्यामि कर्णिकायां त्दृदम्बुजे
धर्मं ज्ञानं च वैराग्यमैश्वर्यादि त्दृदार्चयेत् ।
आवाहनं स्थापनं च पाद्यमर्घ्यं हृदार्पयेत्
आचामं स्नपनं पूजामेकाधारणतुल्यकम्? ।
अग्निकार्यविधिं वक्ष्ये अस्त्रेणोल्लेखनं चरेत्
वर्ंमणाभ्युक्षणं कार्यं शक्तिन्यासं हृदा चरेत् ।
त्दृदि वा शक्तिगर्ते च प्रक्षिपेज्जातवेदसम्
गर्भाधानादिकं कृत्वा निष्कृतिं चारस्य पश्चिमाम् ।
हृदा कृत्वा सर्वकर्ंम शिवं सांगं तु होमयेत्
पूजयेन्मण्डले शम्भुं पद्मगर्भे गराङ्कितम् ।
चतुः षष्ट्यन्तमष्टादि खाक्षि खाद्यादिमण्डलम्
खाक्षीन्द्रसूर्यगं सर्वखादिवेदेन्दु (देवेन्दु) वर्तनम् ।
आग्नेय्यां कारयेत्कुण्डमर्धचन्द्रनिभं शुभम्
अग्निशास्त्र परायुस्थो त्दृदयादिगणोच्यते ।
अस्त्रं दिशा सुपद्मस्य कर्णिकायां सदाशिवः
दीक्षां वक्ष्ये पञ्चतत्त्वे स्थितां भूम्यादिकां परे ।
निवृत्तिर्भूप्रतिष्ठाद्यैर्विद्याग्निः शान्तिवन्निजः
शान्त्यतीतं भवेव्द्योम तत्परं शान्तमव्ययम् ।
एकैकस्य शतं होमा हत्येवं पञ्च होमयेत्
पश्चात्पूर्णाहुतिं दत्त्वा प्रा(प्र)सोदन शिवं स्मरेत् ।
प्रायश्चित्तविशुद्ध्यर्थमेकैकाष्टाहुतिं क्रमात्
होमयेदस्त्रबीजेन एवं दीक्षां समापयेत् ।
यजनव्यतिरेकेण गोप्यं संस्कारमुत्तमम्
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0