गरुड़ पुराण · अध्याय 1.229
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुभक्तिविवरणं नामाष्टाविंशत्युत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 229
सूत उवाच ।
अशेषलोकनाथस्य सारमाराधनं हरेः ।
दद्यातु पुरुषसूक्तेण यः पुष्पाण्यप एव च
अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् ।
यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम्
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
तं यो न ध्यायते विष्णुं स विष्ठायां क्रिमिर्भवेत्
नरके पच्यमानस्तु यमेन परिभाषितः ।
किन्त्वया नार्चितो देवः केशवः क्लेशनाशनः
उदकेनाप्यभावेन द्रव्याणामर्चितः प्रभुः ।
यो ददाति स्वकं लोकं स त्वया किं न चार्चितः
न तत्करोति सा माता न पिता नापि बान्धवः ।
यत्करोति हृषीकेशः सन्तुष्टः श्रद्धयार्चितः
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः
सम्पदैश्वर्यमाहात्म्यैः सन्तत्या न च कर्मणा ।
विमुक्तैश्चैकता लभ्या मूलमाराधनं हरेः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0