गरुड़ पुराण · अध्याय 1.228
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भगवद्भक्तिविवरणं नाम सप्तविंशत्यधिकद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 228
सूतौवाच ।
मुक्तिहेतुमनाद्यन्तमजमव्ययमक्षयम् ।
यो नमेत् सर्वलोकस्य नमस्यो जायते नरः
विष्णुमानन्दमद्वैतं विज्ञानं सर्वगं प्रभुम् ।
प्रणमामि सदा भक्त्या चेतसा हृदयालयम्
यो ऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् ।
तं सर्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम्
शक्तेनापि नमस्कारः प्रयुक्तश्चक्रपाणये ।
संसारतृणवर्गाणामुद्वेजनकरो हि सः
कृष्णे स्फुरज्जलधरोदरचारुकृष्णे लोकाधिकारपुरुषे परमप्रमेये ।
एको हि भावगुणमात्रदृढप्रणामः सद्यः श्वपाकमपि साधयितुं सशक्तः
प्रणम्य दण्डबद्भूमौ नमस्कारेण योर्ऽचयेत् ।
स यां गतिमवाप्नोति न तां क्रतुशतैरपि
दुर्गसंसारकान्ताराकूपारे ऽपि प्रधावताम् ।
एकः कृष्णे नमस्कारो मुक्त्या तांस्तारयिष्यति
आसीनो वा शयानो वातिष्ठन् वा यत्र तत्र वा ।
नमो नारायणायेति मन्त्रैकशरणो भवेत्
नारायणेति शब्दो ऽस्ति वागस्ति वशवर्तिनी ।
तथापि नरके मूढाः पतन्तीति किमद्भुतम्
चतुर्मुखो वा यदि कोटिवक्त्रो भवेन्नरः कोपि विशुद्धचेताः ।
स वै गुणानामयुतैकदेशं वदेन्न वा देववरस्य विष्णोः
व्यासाद्या मुनयः सर्वे स्तुवन्तो मधुसूदनम् ।
मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान् विमुच्यते सद्यः सिंहत्रस्तो मृगा यथा ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति
स्वप्ने ऽपि नाम स्पृशतो ऽपि पुंसः क्षयं करोत्यक्षयपापराशिम् ।
प्रत्यक्षतः किं पुनरत्र पुंसा प्रकीर्तिते नाम्नि जनार्दनस्य
नमः कृष्णाच्युतानन्तवासुदेवेत्युदीरितम् ।
यैर्भावभावितैर्विप्रन ते यमपुरं ययुः
क्षयो भवेद्यथा वह्नेस्तमसो भास्करोदये ।
तथैव कलुषौघस्य नामसंकीर्तनाद्धरेः
क्व नाकपृष्ठगमनं पुनरायाति न क्षयम् ।
गच्छतां दूरमध्वानं कृष्णमूर्छितचेतसाम्
पाथेयं पुण्डरीकाक्षनामसंकीर्तनं हरेः ।
संसारसर्पसंदष्टविषचेष्टैकभेषजम् ।
कृष्णेति वैष्णवं क्षान्तं जप्त्वा मुक्तो भवेन्नरः
ध्यायन् कृते जपेन्मन्त्रैस्त्रेतायां द्वापरेर्ऽचयन् ।
यदाप्नोति तदाप्नोति तदाप्नोति कलौ संस्मृत्यकेशवम्
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ।
संसारसागरं तीर्त्वा स गच्छेद्वैष्णवं पदम्
विज्ञातदुष्कृतिसहस्रसमावृतो ऽपिश्रेयः परन्तु परिशुद्धिम भीप्समानः ।
स्पप्नान्तरे न हि पुनश्च भवं स पश्येन्नारायणस्तुतिकथापरमो मनुष्यः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0