भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.211

1.211.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डेर्ऽद्धसमवृत्तलक्षणादिनिरूपणं नाम दशोत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 211
सूत उवाच ।
प्रथमो ऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः ।
तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः
सामान्यलक्षणं पदचतुरूर्ध्वाभिरधस्य हि

1.211.2

आपीडः सर्वलः प्रोक्तः पूर्वपादान्तगद्वयः

1.211.3

द्वितीये ऽष्टाक्षरैः पादे कलिका प्रथमेर्ऽकजे ।
लवली स्यात्तृतीये ऽथ पूर्ववच्चाष्ट काक्षरे ।
प्रोक्ता चामृतधारेयं चतुरष्टाक्षरे सति

1.211.4

(इति पदचतुरूर्ध्वप्रकरणम्) ।
सजौ सलौ च प्रथमे नसजा गो द्वितीयके ।
तृतीये भनभा गश्च चतुर्थे सजसा जगौ

1.211.5

पूर्ववत्स्यात्सौरभकं तृतीये ऽघ्रौ रनौ भगौ ।
ललितञ्चाद्गतावत्स्यातृतीयेंऽघ्रौ ननौ ससौ

1.211.6

(इत्युद्गताप्रकरणम्) ।
उपस्थितप्रचुपितं प्रथमे ऽघ्रौ मसौ जभौ ।
गौ द्वितीये सनजरा गस्तृतीये ननौ च सः ।
नौ नजौ यश्चतुर्थे स्याच्छेष पादाश्च पूर्ववत्

1.211.7

तृतीर्ये ऽघ्रौ विशेषश्च वृत्तं स्यान्नौ सनौ नसौ

1.211.8

आर्षभं तजराः पादे तृतीये ऽन्यच्च पूर्ववत् ।
पूर्ववत्प्रथमं शेषे तज्राः शुद्धविराड्भवेत्

1.211.9

(इत्युपस्थितप्रचुपितप्रकरणम्) ।
विषमाक्षरपादं वा पञ्चषट्कादि यावकम् ।
छन्दो ऽत्र नोक्ता गाथेति दशधर्ंमादिवद्भवेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc