भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.212

1.212.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषमवृत्तलक्षणादिनिरूपणं नामैकादशोत्तरद्विशशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 212
सूत उवाच ।
प्रस्तार आद्यगो ऽथो लः परतुल्यो ऽथ पूर्वगः ।
नष्टमध्ये समेंऽके लः समे ऽर्धे विषमे गुरुः

1.212.2

प्रतिलोमगुणं लाद्यं द्विरुद्दिष्टक एकनुत्

1.212.3

संख्या द्विरर्धे रूपे तु शून्यं शून्ये द्विरीरितम् ।
तावदर्धे तद्गुणितं द्विर्द्व्यूनन्तु तदन्ततः

1.212.4

परे पूर्णं परे पूर्णं मेरुः प्रस्तारतो भवेत्

1.212.5

लगसंख्या वृत्तसंख्या चाद्याङ्गुलमथोर्ध्वतः ।
संख्यैव द्विगुणैकोनाच्छन्दः सारो ऽयमीरितः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc