गरुड़ पुराण · अध्याय 1.210
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे समवृत्तलक्षणादिनिरूपणं नाम नवोत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 210
सूत उवाच ।
सससलगाश्च विषमे पादे यद्युपचित्रकम् ।
समे भौ भगगाः स्युश्च द्रुतमध्या भभौ भगौ
गः पादे विषमे ऽन्यत्र नजौ ज्यौ च गणौ स्मृतौ
विषमे वेगवती सा गः समे भौ भो गगौ गणाः ।
पादे ऽसमे तजौ रो गः समे मसौ जगौ गरुः ।
भवेद्भद्रविराट् केतुमती तु विषमे सजौ
सगौ समे भ्रौ नगगा आख्यानकी त्वथासमे ।
तौ जो गगौ समे पादे जतजा गुरुकद्वयम्
विपरीताख्यानकं स्याद्विषमे जस्तजौ गगौ ।
ततौ जगौ समे गः स्यात् पिङ्गलेन ह्युदाहृतम्
पादे ऽथ विषमे चैव पुष्पिताग्रा ननौ रयौ ।
समे नजौ जरौ गश्च वैतालीयं वदन्ति हि ।
वृत्तञ्चापरवक्त्राख्यमौपच्छन्दसिकं परम्
वाङ्मती रजरा यः स्यादयुग्मे जरजा रगौ
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0