भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.208

1.208.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे छन्दः शास्त्रेछन्दःसंज्ञापरिभाषानिरूपणं नाम सप्तोत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 208
सूत उवाच ।
आर्यालक्ष्म त्वष्ट गणाः सदा जो विषमे न हि ।
षष्ठे जो न्लौ वापि भवेत् पदं षष्ठे द्वितीयलात्

1.208.2

आदितः सप्तमे ह्रस्वा द्वितीयार्धे शरे ततः ।
त्रिगणाङ्घ्रिश्च पथ्या स्याद्विपुला वह्निलङ्घनात्

1.208.3

ग्मध्ये द्वितुर्यौ जौ चपला मुखपूर्वादिचापला ।
द्वितीयार्धे सजघना आर्याजातेश्च लक्षणम्

1.208.4

आर्या प्रथमार्धलक्ष्म गीतिः स्याच्चेद्दलद्वये ।
उपगीतिर्द्वितीयार्धादुद्गीतिर्व्यत्ययाद्भवेत्

1.208.5

आर्यागीतिश्चान्तगुरुर्गोतिजातेश्च लक्षणम् ।
षट् कला विषमे चेत्स्युः समे ऽष्टौ न निरन्तराः ।
समा पराश्रिता न स्याद्वैतालीये रलौ गुरुः

1.208.6

अन्तेर् यौ पूर्ववदिदमौपच्छन्दसिकं मतम्

1.208.7

भाद्गौ स्यादापातलिका ज्ञेयाथो दक्षिणान्तिका ।
पराश्रितो द्वितीयो लः पादेषु निखिलेष्वपि

1.208.8

उदीच्यवृत्तिरसमे प्राच्यवृत्तिस्तु युग्मके ।
सपञ्चमश्चतुर्थांशे युगपत्तौ प्रवृत्तकम्

1.208.9

उदीच्याद्यङ्घ्रिसंयोगाद्युग्मपादैकपादिका ।
चारुहासिन्ययुग्माङ्घ्रौ वैतालीयस्य संग्रहः

1.208.10

वक्त्रं नाद्यान्नसौ स्यातां चतुर्थाद्यगणो भवेत् ।
पथ्यावक्त्रं जेन समे विपरीतादिरन्यथा

1.208.11

उसमे नश्च चपला विपुला लघुसप्तमा ।
निखिले वा सैतवस्य म्रौ न्तौ चाब्धेस्तत्पूर्वकौ

1.208.12

षोडशलो ऽचलधृतिर्मात्रासमकमुच्यते

1.208.13

नवमलस्तथा गो ऽन्त्यः जो न्लौवाथाम्बुधेर्यथा ।
विश्लोकः स्यात्तच्चतुष्कद्विगुणाद्वानवासिका

1.208.14

बाणाष्टनवकेषु स्याल्लश्चित्रा षोडशात्मिका ।
सममात्रासमादिष्टं पदाकुलकमीरितम्

1.208.15

वृत्तमात्रा विना वर्णैर्ला वर्णा गुरुभिर्विना ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम्

1.208.16

अष्टाविंशातिला गन्ता प्रथमार्धे द्वितीयके ।
त्रिंशदस्यां शिखा गन्ता खञ्जातद्व्यत्ययाद्भवेत्

1.208.17

षोडशानङ्गक्रीडा गा द्वात्रिंशच्चरमे च लाः ।
सप्तविंशातिला गन्ता दलयो रुचिरा द्वयोः

1.208.18

मात्रावृत्तानि चोक्तानि वर्णवृत्तानि वच्मि वै

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc