भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.207

1.207.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमान्- आचारदृ नाम षडुत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 207
सूत उवाच ।
वासुदेवं गुरुं नत्वा गणं शम्भुं सरस्वतीम् ।
मात्रावर्णप्रभेदेन च्छन्दो वक्ष्ये ऽल्पबुद्धये

1.207.2

सर्वादिमध्यान्तगलौ म्नौ भ्यौ ज्रौ स्तौ त्रिका गणाः ।
आर्या चतुष्कलाद्यन्तसर्वमध्ये चतुर्गणाः

1.207.3

व्यञ्जनान्तो विसर्गान्तौ दीर्घो युक्तपरो गुरुः ।
सानुस्वारश्च पादान्तो वा इत्युक्तो द्विमात्रकः

1.207.4

यदा नापि क्रमं योगे लघुतापि क्वचिद्गुरोः ।
श्लोकचार्यादिसंज्ञा स्याद्यतिर्विच्छेदसंज्ञिका

1.207.5

ज्ञेयः पादश्च तुर्यांशो युक् समं विषमन्त्वयुक् ।
सममर्धसमं वृत्तं विषमञ्च तृतीयकम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc