भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.202

1.202.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गजाश्वायुर्वेदनिरूपणं नामैकाधिकद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 202
हरिरुवाच ।
एकं पुनर्नवामूलमपामार्गस्य वा शिव ।
सरसं योनिनिः क्षिप्तं वराङ्गस्य व्यथां हरेत् ।
प्रसूतिवेदनाञ्चैव तरुणीनां व्यथां हरेत्

1.202.2

भूमि कूष्माण्डमूलं वै शालिचूर्णमथापि वा ।
सप्ताहं दुग्धपीतं स्यात्स्त्रीणां बहुपयस्करम्

1.202.3

रुद्रेन्द्रवारुणीमुलं लेपात्स्त्रीस्तनवेदना ।
नश्येत घृतपक्वा च कार्यावश्यन्तु पोलिका

1.202.4

भक्षिता सा महेशान योनिशूलं विनाशयेत् ।
प्रलेपिता कारवेल्लमूलेनैव विनिर्गता

1.202.5

योनिः प्रवेशमायाति नात्र कार्या विचारणा ।
नीलीपटोलमूलानि साज्यानि तिलवारिणा

1.202.6

पिष्टान्येषां प्रलेपो वै ज्वालागर्दभरागनत् ।
पाठामूलं रुद्र पीतं पिष्टं तण्डुलवारिणा

1.202.7

पापरोगहरं स्याच्च कुष्ठपानं तथैव च ।
वास्योदकञ्च समधु पीतमन्तर्गतस्य वै

1.202.8

पापरोगस्य सन्तापनिवृक्तिं कुरुते शिव ।
घृततुल्या रुद्र लाक्षा पीता क्षीरेण वै सह

1.202.9

प्रदरं हरते रोगं नात्र कार्या विचारणा ।
द्विजयष्टी त्रिकटुकं चूर्णं पीतं हरेच्छिव

1.202.10

तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ।
कुसुमस्य निबद्धञ्च तरुणीनां महेश्वर

1.202.11

रक्तोत्पलस्य वै कन्दं-शर्करातिलसंयुतम् ।
पीतं सशर्करं स्त्रीणां धारयेद्गर्भपातनम्

1.202.12

रक्तस्त्रावस्य नाशः स्याच्छीतोदकनिषेवणात् ।
पीतन्तु काञ्जिक रुद्र क्वथितं शरपुङ्खया

1.202.13

हिङ्गुस्त्रैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् ।
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत्

1.202.14

अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः ।
उत्पाट्यमाने सकले पुत्त्रः स्यादान्यथा सुता

1.202.15

अपामार्गस्य वै मूले नारीणां शिरसि स्थिते ।
गर्भशूलं विनश्येत नात्र कार्या विचारणा

1.202.16

कर्पूर-मदनफल-मधुकैः पूरितः शिव ।
योनिः सुभा स्याद्वृद्धाया युवत्याः किं पुनर्हर

1.202.17

यस्य बालस्य तिलकः कृतो गौरोचनाख्यया ।
शर्करा-कुष्ठपानञ्च दत्तं स स्याच्च निर्भयः ।
विष-भूत-ग्रहादिभ्यो व्याधिभ्यो बालकः शिव

1.202.18

शङ्ख-नाभि-वचा-कुष्ठ-लोहानां धारणं सदा ।
बालानामुपसर्गेभ्यो रुद्र रक्षाकरं भवेत्

1.202.19

पलाशचूर्णं समधु गव्याज्यामलकान्वितम् ।
सविडङ्गं पीतमात्रं नरं कुर्यान्महामतिम्

1.202.20

मासैकेन महादेव जरा-मरणवर्जितः

1.202.21

पलाशबीजं सघृतं तिल-मध्वन्वितं समम् ।
सप्ताहं भक्षितं रुद्र जरां नयति संक्षयम्

1.202.22

रुद्रामलकचूर्णं वै मधु-तैल घृतान्वितम् ।
जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरी भवेत्

1.202.23

शिवामलकचूर्णं वै मधुना उदकेन वा ।
बलानि कुर्यान्नासायाः प्रत्यूषे भक्षितं शिव

1.202.24

कुष्ठचूर्णं साज्य-मधु प्रातर्जग्ध्वा भवेन्नरः ।
साक्षात्सुरभिदेहो वै जीवेद्वर्षसहस्रकम्

1.202.25

माषस्य विदलान्ये वितुषाणि महेश्वर ।
घृतभावितशुष्काणि पयसा साधितानि वै

1.202.26

समाध्वाज्यपयोभिश्च भक्षयित्वा च कामयेत् ।
स्त्रीणां शतं महादेव तत्क्षणान्नात्र संशयः

1.202.27

रसश्चैरण्डतैलेन गन्धकेन शुभो भवेत् ।
त्रिकालोदकसंघुष्टो बलकृद्भक्षणाद्भवेत्

1.202.28

दुग्धं वितुषमाषैश्च शिम्बाबीजैश्च साधितम् ।
अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc