गरुड़ पुराण · अध्याय 1.203
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानाविधोषधप्रयोगानिरूपणं नाम द्व्युत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 203
हरिरुवाच ।
या गौर्द्वेष्टिं स्वकं वत्सं तस्या देयं स्वकं पयः ।
लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत्
शुनो ऽस्थि कण्ठबद्धं हि महिषाणां गवा तथा ।
कृमिजालं पातयति सकलं नात्र संशयः
गोजङ्गनाभिपातः स्याद्गुञ्जामूलस्य भक्षणात्
वरुणफलस्यरसं करेण मथितं शिव ।
चतुष्पाद-द्विपदयोः कृमिजालं निपातयेत्
व्रणञ्च शमयेद्रुद्र जयायाः पूरणात् तथा ।
गजमूत्रस्य वै पानं गो-महिष्युपसर्गनुत्
समसूर शालिबीजं पीतं तक्रेण घर्षितम् ।
क्षीरे गो-महीषस्यैव गोः पुंसश्च हितं भवेत्
पत्रञ्च शरपुङ्खाया दत्तं सलवणं शिव ।
वारिस्फोटं हयानाञ्च केसराणां विनाशयेत्
घृतकुमारीपत्रमेव दत्तं सलक्षणं हर ।
तुरगम-केसराणां कण्डूनंश्येन्न संशयः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0