भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.19

1.19.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाव्ये आचारकाण्डे ऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशो ऽध्यायः
श्रीगरुडमहापुराणम्- 19
सूत उवाच ।
प्राणेश्वरं गारुडं च शिवोक्तं प्रवदाम्यहम् ।
स्थानान्यादौ प्रवक्ष्यामि नागदष्टो न जीवति

1.19.2

चितावल्मीकशैलादौ कपे च विवरे तरोः ।
दंशे रेखात्रयं यस्य प्रच्छन्नं स न जीवति

1.19.3

षष्ठ्यां च कर्कटे मेषे मूलाश्लेषामघादिषु ।
कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु

1.19.4

दण्डी शस्त्रधरो भिक्षुर्न ग्नादिः कालदूतकः ।
बाहौ च वक्क्रे ग्रीवायां दष्टायां न हि जीवति

1.19.5

पूर्वं दिनपतिर्भुङ्क्ते अर्धयामं ततो ऽपरे ।
शेषा ग्रहाः प्रतिदिनं षट्संख्या परिवर्तनैः

1.19.6

नागभोगः क्रमाञ्ज्ञेयो रात्रौ बाणविवर्तनैः ।
शेषोर्ऽकः फणिपश्चन्द्रस्तक्षको भौम ईरितः

1.19.7

कर्कोटो ज्ञो गुरुः पद्मो महापद्मश्च भार्गवः ।
शङ्खः शनैश्चरो राहुः कुलिकश्चाहयो ग्रहाः

1.19.8

रात्रौ दिवा सुरगुरोर्भागे स्यादमरान्तकः ।
पङ्गोः काले दिवा राहुः कुलिकेन सह स्थितः

1.19.9

यामार्धसन्धिसंस्थां च वेलां कालवतीं चरेत् ।
बाणद्विषड्वह्निवाजियुगभूरेकभागतः?

1.19.10

दिवा षडेदनेत्राद्रिपञ्चत्रिमानुषांशकैः ।
पादाङ्गुष्ठे पादपृष्ठे पादपृष्ठे गुल्फे जानुनि लिङ्गके

1.19.11

नाभौ हृदि स्तनतटे कण्ठे नासापुटे ऽक्षिणि ।
कर्णयोश्च भ्रुवोः शङ्खे मस्तके प्रतिपत्क्रमात्

1.19.12

तिष्ठच्चन्द्रश्च जीवेच्च पुंसो दक्षिणभागके ।
कायस्य वामभागे तु स्त्रिया वायुवहात्करात्

1.19.13

अमृतस्तत्कृतो मोहो निवर्तेत च मर्दनात् ।
आत्मनः परमं बीजं हंसाख्यं स्फटिकामलम्

1.19.14

दातव्यं विषपापघ्नं बीजं तस्य चतुर्विधम् ।
विन्दुपञ्चस्वरयुतमाद्यमुक्तं द्वितीयकम् ।
षष्ठारूढं तृतीयं स्यात्सविसर्गं चतुर्थकम् ।
ओं कुरु कुले स्वाहा

1.19.15

विद्या त्रैलोक्यरक्षार्थं गरुडेन धृता पुरा ।
वधेप्सुर्नागनागानां मुखे ऽथ प्रणवं न्यसेत्

1.19.16

गले कुरु न्यसेद्धीमान्कुले च गुल्फयोः स्मृतः ।
स्वाहा पादयुगे चैव युगहा न्यास ईरितः

1.19.17

गृहे विविखिता यत्र तन्नागाः संत्यजन्ति च ।
सहस्रमन्त्रं जप्त्वा तु कर्णे सूत्रं धृतं तथा

1.19.18

यद्रृहे शर्करा जप्ता क्षिप्ता नागास्त्यजन्ति तत् ।
सप्तलक्षस्य जप्याद्धि सिद्धिः प्राप्ता सुरासुरैः

1.19.19

ओं सुवर्णरेखे कुक्कुटविग्रहरूपिणि स्वाहा ।
एवञ्चाष्टदले पद्म दले वर्णयुगं लिखेत्

1.19.20

नामैतद्वारिधाराभिः स्नातो दष्टो विषं त्यजेत् ।
ओं पक्षि स्वाहा

1.19.21

अङ्गुष्ठादि कनिष्ठान्तं करे न्यस्याथ देहके ।
के (कै) वक्क्रे हृदि लिङ्गे च पादयोर्गरुडस्य हि

1.19.22

नाक्रामन्ति च तच्छायां स्वप्ने ऽपि विषपन्नगाः ।
यस्तु लक्षं जपेच्चास्याः स दृष्ट्वा(ष्ट्या) नाशयेद्विषम्

1.19.23

ओं ह्री ह्रौ ह्रीं भि(भी) रुण्डायै स्वाहा ।
कर्णे जप्ता त्वियं विद्या दष्टकस्य विषं हरेत्

1.19.24

अ आ न्यसेत्तु पादाग्रे इ ई गुलफे ऽथ जानुनि ।
उ ऊ ए ऐ कटितटे ओ नाभौ हृदि औ न्यसेत्

1.19.25

वक्क्रे अमुत्तमाङ्गे अः न्यसेद्वै हंससंयुताः ।
हंसो विषादि च हरेज्जप्तो ध्यातो ऽथ पूजितः

1.19.26

गरुडो ऽहमिति ध्यात्वा कुर्याद्विषहरां (रीं) क्रियाम् ।
हंमन्त्रं गात्रविन्यस्तं विषादिहरमीरितम्

1.19.27

न्यस्य हंसं वामकरे नासामुखनिरोधकृत् ।
मन्त्रो हरेद्दष्टकस्य त्वङ्मांसादिगतं विषम्

1.19.28

स वायुना समाकृष्य दष्टानां गरलं हरेत् ।
तनौ न्यसेद्दष्टकस्य नीलकण्ठादि संस्मरेत्

1.19.29

पीतं प्रत्यङ्गिरामूलं तण्डुलद्भिर्विषापहम् ।
पुनर्नवाफलिनीनां मूलं वक्क्रजमीदृशम्

1.19.30

मूलं शुक्लबृहत्यास्तु कर्कोट्यागैरिकर्णिकम् ।
अद्भिर्घृष्टघृतोपेतलेपो ऽयं विषमर्दनः

1.19.31

विषमृद्धिं न व्रजेच्च उष्णं पिबति यो घृतम् ।
पञ्चाङ्गं तु शिरीषस्य मूलं गृञ्जनजं तथा

1.19.32

सर्वाङ्गलेपतशचापि पानाद्वा विषहृद्भवेत् ।
ह्रीं गोनसादिविषहृत्

1.19.33

हृल्ललाटविसर्गान्तं ध्यातं वश्या दिकृद्भवेत् ।
न्यस्तं योनौ वशेत्कन्यां कुर्यान्मदजलाविलम्

1.19.34

जप्त्वा सप्ताष्टसाहस्रं गरुत्मानिव सर्वगः ।
कविः स्याच्छ्रुतिधरी च वश्याः स्त्रीश्चायुराप्नुयात् ।
विषहृत्स्यात्कथा तद्वन्मणिर्व्यासः स्मृतो ध्रुवम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc