भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.18

1.18.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्यार्चन विधिर्नाम सप्तदशो ऽध्यायः
श्रीगरुडमहापुराणम्- 18
सूत उवाच ।
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् ।
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम्

1.18.2

ओङ्कारं पूर्वमुद्धृत्य जु(हु)ङ्कांरं तदनन्तरम् ।
सविसर्गं तृतीयं स्यान्मृत्युदारिद्रयमर्दनम्

1.18.3

ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम् ।
अमृतेशं महामन्त्रन्त्र्यक्षरं पूजनं समम् ।
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः

1.18.4

शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत् ।
अष्टोत्तरशताज्जाप्यात्रिसन्ध्यं मृत्यु शत्रुजित

1.18.5

ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे ।
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम्

1.18.6

तस्यैवाङ्गगतां देवीममृतामृतभाषिणी(विनि) म् ।
कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम्

1.18.7

जपेदष्टसहस्रं वै त्रिसन्ध्यं मासमेकतः ।
जरामृत्युमहाव्याधिशत्रुच्छिवशान्तिदम्

1.18.8

आह्वानं स्थापनं रोधं सन्निधानं निवेशनम् ।
पाद्यमा चमनं स्नानमर्घ्यं स्रगनुलेपनम्

1.18.9

दीपांबरं भूषणं च नैवद्यं पानवीजनम् ।
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः

1.18.10

वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम् ।
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम्

1.18.11

षडङ्गादिप्रकारेण पूजनं तु क्रमोदितम् ।
परमेशमुखोद्रीतं यो जानाति स पूजकः

1.18.12

अर्घ्यपात्रार्चनं चादावस्त्रेणैव तु ताडनम् ।
शोधनं कवचेनैव अमृतीकरणं ततः

1.18.13

पूजा चाधारशक्त्यादेः प्राणायामं तथासने ।
पीठसुद्धिं ततः कुर्याच्छोषणाद्यैस्ततः स्मरेत्

1.18.14

आत्मानं देवरूपं च कराङ्गन्यासकं चरेत् ।
आत्मानं पूजयेत्पश्चाज्यो तीरूपं हृदब्जतः

1.18.15

मूर्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम् ।
आह्वानद्वारपूजार्थं पूजा चाधारशक्तितः

1.18.16

सान्निध्यकरणं देवे परिवारस्य पूजनम् ।
अङ्गषट्कस्य पूजा वै कर्तव्या च विपश्चितैः

1.18.17

धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः ।
युगवेदमुहूर्ताश्च पूजेयं भुक्तिमुक्तिकृत्

1.18.18

मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत् ।
महाकालं च यमनां देहल्यां पूजयेत्पुरा

1.18.19

ओं अमृतेश्वर ओं भैरवाय नमः ।
एवं ओं जुं हंसः सूर्याय नमः

1.18.20

एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च ।
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc