गरुड़ पुराण · अध्याय 1.20
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सर्पविषहरोपाय(प्राणेश्वरविद्या) निरूपणं नामैकोनविंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 20
सूत उवाच ।
वक्ष्ये तत्परमं गुह्यं शिवोक्तं मन्त्रबृन्दकम् ।
पाशं धनुश्च चक्रं च मुद्ररं शूलपट्टिशम्
एतैरेवायुधैर्युद्धे मन्त्रैः शत्रूञ्जयेन्नृपः ।
मन्त्रोद्धारः पद्मपात्रे आदि पूर्वादिके लिखेत्
अष्टवर्गं चाष्टमं च ख्यातमीशानपत्रके ।
ओं कारो ब्रह्म बीजं स्याद्ध्रीङ्कारो विष्णुरेव च
ह्रीङ्का रश्च शिवः शूले त्रिशाखे तु क्रमान्न्यसेत् ।
ओं ह्रीं ह्रीं
शूलं गृहीत्वा हस्तेनाभ्राम्य चाकाशसंमुखम् ।
तद्दर्शनान्द्रहा नागा दृष्ट्वा वा नाशमाप्नु युः
धूमारक्ते करं मध्ये ध्यात्वा खे चिन्तयेन्नरः ।
दुष्टा नागा ग्रहा मेघा विनश्यन्ति च राक्षसाः
त्रिलोकान्रक्षयेन्मन्त्रो मर्त्यलोकस्य का कथा ।
ओं जूं सूं हूं फट्
खादिरान्कीलकानष्टौ क्षेत्रे संमन्त्र्य विन्यसेत् ।
न तत्र वज्रपातस्य स्फूर्जथ्वादेरुपद्रवः
गरुडोक्तैर्महामन्त्रैः कीलकानष्ट मन्त्रयेत् ।
एकविंशतिवाराणि क्षेत्रे तु निखनेन्निशि
विद्युन्मूषकवज्रादिसमुपद्रव एव च ।
हरक्षमलवरयू बिन्दुयुक्तः सदाशिवः
ओं ह्रां सदाशिवाय नमः ।
तर्जन्या विन्यसेत्पिण्डं (ण्डे) दाडिमीकुसुमप्रभम्
तस्यैव दर्शनाद्दुष्टा मेघविद्युद्दिपादयः ।
राक्षसा भूतडाकिन्यः प्रद्रवन्ति दिशो दश
ओं ह्रीं गणेशाय नमः ।
(ओं ह्रीं) स्तम्भनादिचक्राय नमः ।
ओं ऐं ब्रहयैन्त्रै लोक्यडामराय नमः
भैरवं पिण्डमाख्यातं विषपापग्रहापहम् ।
क्षेत्रस्य रक्षणं भूतराक्षसादेः प्रमर्दनम्
ओं नमः ।
इन्द्रवज्रं करे ध्यात्वा दुष्टमेघादिवारणम् ।
विष शत्रुगणा भूता नश्यन्ते वज्रमुद्रया
ओं क्षुं(क्ष) नमः ।
स्मरेत्पाशं वामहस्ते विषभूतादि नश्यति ।
ओं ह्रां (ह्रो) नमः ।
हरेदुच्चारणान्मन्त्रो विषमेघग्रहादिकान्
ध्यात्वा कृतान्तं च दहेच्छेदकास्त्रेण वै जगत् ।
ओं क्ष्णं (क्ष्म) नमः ।
ध्यात्वा तु भैरवं कुर्यान्द्रहभूतविषापहम्
ओं लसद्दिजिह्वाक्ष स्वाहा ।
क्षेत्रादौ ग्रहभूतादिविषपक्षिनिवारणम्
ओं क्ष्व (क्ष्णं) नमः ।
रक्तेन पटहे लिख्य शब्दात्रेसुर्ग्रहादयः ।
ओं मर मर मारयमारय स्वाहा ।
ओं हुं फट् स्वाहा
शूलं चाष्टशतैर्मन्त्र्य भ्रामणाच्छत्रुवृन्दहृत् ।
ऊर्धशक्तिनिपातेन अधः शक्तिं निकुञ्चेयेत्
पूरके पूरिता मन्त्राः कुम्भकेन सुमन्त्रिताः ।
प्रणवेनाप्यायितास्ते मनवस्तदुदीरिताः ।
एवमाप्यायिता मन्त्रा भृत्यवत्फलदायकाः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0