गरुड़ पुराण · अध्याय 1.182
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकाशीत्यधिकशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 182
हरिरुवाच ।
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते
भुक्ते तु शर्करा पीता नवनीतेन बुद्धिकृत् ।
गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् ।
स्त्रीसहस्रञ्च संगच्छेत्पुमान्बलयुतो हर !
कुष्ठं संचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् ।
भक्षयेत्स्वप्नवेलायां बलीपलितनाशनम्
अतसीमाषगोधूमचूर्णं कृत्वा तु पिप्पली ।
घृतेन लेपयेद्गत्रमोभिः सार्धं विचक्षणः ।
कन्दर्पसदृशो मर्त्यो नित्यं भवति शङ्कर !
यवास्तिलाश्वगन्धा च मुशली सरला गुडम् ।
एभिश्च रचितां जग्ध्वा तरुणो बलवान्भवेत्
हिङ्गु सौवर्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः ।
परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति
धातकीं सोमराजीञ्च क्षीरेण सह पेषयेत् ।
दुर्बलश्च भवेत्स्थूलो नात्र कार्या विचारणा
शर्करामधुसंयुक्तं नवनीतं बली लिहेत् ।
क्षीराशी च क्षयी पुष्टिं मेधाञ्चैवातुलां व्रजेत्
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरेगनुत् ।
भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम्
मनः शिला शङ्खचूर्णं तैलपक्वं तथैव च ।
लोमानि शातयत्येव नात्र कार्या विचारणा
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।
हस्तौ संलेपयेत्तेन त्वग्निस्तम्भनमुत्तमम्
शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।
अग्नयादौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमम्
वायस्या उदरं गृह्य मण्डूकवसया सह ।
गुटिकां कारयेत्तेन ततो ऽग्नौ संक्षैपेत्सुधीः ।
एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम्
मुण्डीत्वक्च वचा मुस्तं मरिचं तगरं तथा ।
चर्वित्वा च त्विमं सद्यो जिह्वया ज्वलनं लिहेत्
गोरोचनां भृङ्गराजं चूर्णोकृत्यघृतं समम् ।
दिव्याम्भसः स्तम्भनं स्यान्मन्त्रेणानेन वै तथा ।
ओं अग्निस्तम्भनं कुरु कुरु
ओं नमो भगवते जलं स्तम्भय सं सं सं केक केकः चरचर ।
जलस्तम्भनमन्त्रो ऽयं जलं स्तम्भयते शिव !
गृध्रास्थिञ्च गवास्थिञ्च तथा निर्माल्यमेव च ।
अरेर्यो निखनेद्द्वारे पञ्चत्वमु पयाति सः
पञ्चरक्तानि पुष्पाणि पृथग्जात्या समालभेत् ।
कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम्
पुष्पेण तु समं पिष्ट्वा रोचनायाः पलैकतः ।
स्त्रिया पुंसा कृतो रुद्र ! तिलको ऽयं वशीकरः
ब्रह्मदण्डी तु पुष्येण भक्ष्ये पाने वशीकरः ।
यष्टि मधु पलैकेन पक्वमुष्णोदकं पिबेत्
विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर ! ।
ओं ह्रूं जः ।
मन्त्रो ऽयं हरते रुद्र ! सर्ववृश्चिकजं विषम्
पिप्पली नवनीतञ्च शृङ्गवेरं च सैन्धवम् ।
मरिचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत्
त्रिफलार्द्रककुष्ठं च चन्दनं घृतसंयुतम् ।
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव !
पारावतस्य चाक्षीणि हरितालं मनः शिला ।
एतद्योगाद्विषं हन्ति वैनतेय इवोरगान्
सैन्धवं त्र्यूषणं चैव दधिमध्वाज्यसंयुतम् ।
वृश्चिकस्य विषं हन्ति लेपो ऽयं वृषभध्वज !
ब्रह्मदण्डीतिलान्क्वाथ्य चूर्णं त्रिकटुकं पिबेत् ।
नाशयेद्रुद्र ! गुल्मानि निरुद्धं रक्तमेव च
पीत्वा क्षीरं क्षौद्रयुतं नाशयेदसृजः स्त्रुतिम् ।
आटरूपकमूलेन भगं नाभिं च लेपयेत् ।
सुखं प्रसूयते नारी नात्र कार्या विचारणा
शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा ।
रक्तातिसारशमनं भवतीति वृषध्वज !
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0