गरुड़ पुराण · अध्याय 1.181
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अशीत्यधिकशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 181
हरिरुवाच ।
ताम्बूलञ्च घृतं क्षौद्रं लवणं ताम्रभाजने ।
तथा पयः समायुक्तं चक्षुः शूलहरं परम्
हरीतकी वचा कुष्ठं व्योषं हिङ्गु मनः शिला ।
कासे श्वासे च हिक्कायां लिह्यात्क्षौद्रं घृप्लुतम्
पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः ।
नश्यते पीनसः कासः श्वासश्च बलवत्तरः
समूलचित्रकं भस्मपिप्पलीचूर्णकं लिहेत् ।
श्वासं कासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज !
नीलोत्पलं शर्करा च मधुकं पद्मकं समम् ।
तण्डुलोदकसंमिश्रं प्रशमेद्रक्तविक्रियाः
शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता ।
कोकिलस्वर एव स्याद्गुटिका भुक्तिमात्रतः
हरितालं शङ्खचूर्णं कदलीदलभस्मना ।
एतद्द्रव्येण चोद्वर्त्य लोमशातनमुत्तमम्
लवणं हरितालञ्च तुम्बिन्याश्च फलानि च ।
लाक्षारससमायुक्तं लोमशातनमुत्तम्
सुधा च हरितालञ्च शङ्खभस्म मनः शिला ।
सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत्
तत्क्षणोद्वर्तनादेव लोमशातनमुत्तमम् ।
शङ्खमामलकं पत्रं धातक्याः कुसुमानि च
पिष्ट्वा तत्पयसा सार्धं सप्ताहं धारयेन्मुखे ।
स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0