भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.17

1.17.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिध्यानसूर्यार्चनयोर्निरूपणं नाम षोडशो ऽध्यायः
श्रीगरुडमहापुराणम्- 17
हरिरुवाच ।
पुनः सूर्यार्चनं वक्ष्ये यदुक्तं धनदाय हि ।
अष्टपत्रं लिखेत्पद्मं शुचौ देशे सकर्णिकम्

1.17.2

आवाहनीं ततो बद्धा मुद्रामावाहयेद्रविम् ।
खखोल्कं स्थाप्य मुद्रां तु स्थापयेन्मन्त्ररूपिणीम्

1.17.3

आग्नेय्यां दिशि देवस्य हृदयं स्थापयेच्छिव ! ।
ऐशान्यां तु शिरः स्थाप्यं नैरृत्यां विन्यसेच्छिखाम्

1.17.4

पौरन्दर्यां न्यसेद्धर्ंममेकाग्रस्थितमानसः ।
वायव्यां चैव नेत्रं तु वारुण्यामस्त्रमेव च

1.17.5

ऐशान्यां स्थापयेत्सोमं पौरन्दर्यां तु लोहितम् ।
आग्नेय्यां सोमतनयं याम्यां चैव बृहस्पतिम्

1.17.6

नैरृत्यां दानवगुरुं वारुण्यां तु शनैश्चरम् ।
वायव्यां च तथा केतुं कौबेर्यां राहुमेव च

1.17.7

द्वितीयायां तु कक्षायां सूर्यान्द्वादश पूजयेत् ।
भगः सूर्योर्ऽय्यमा चैव मित्रो वै वरुणस्तथा

1.17.8

सविता चैव धाता च विवस्वांश्च महाबलः ।
त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुरुच्यते

1.17.9

पूर्वादावर्चयेद्देवानिन्द्रादीञ्छ्रद्धया नरः ।
जया च विजया चैव जयन्ति चापराजिता ।
शेषश्च वासुकिश्चैव नागानित्यादि पूजयेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc