गरुड़ पुराण · अध्याय 1.176
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरहरनानायोगादिवर्णनं नाम पञ्चसप्तत्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 176
श्रीभगवानुवाच ।
सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः ।
दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात्
भृङ्गराजरसेनैव चतुर्भागेन साधितम् ।
केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च
एलामांसीकुष्ठमुरायुक्तमभ्यङ्गतः शिवम् ।
गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुत्
आम्रास्थिचूर्णलेपाद्वै केशाः सूक्ष्मा भवन्ति च ।
करञ्जामलकैलाललाक्षालेपो ऽरुणापहः
आम्रास्थिमज्जामलकलेपात्केशा भवन्ति वै ।
बद्धमूला घना दीर्घाः स्नग्धाः स्युर्नोत्पतन्ति च
विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् ।
सचतुर्गुणगोमूत्रं मनसः शिलमेव वा
शिरो ऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत् ।
नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम्
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज ।
भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम्
नीली च करवीरं च गुडमेतैः समं शृतम् ।
पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम्
आम्रास्थिमज्जा त्रिफला नी (ता) ली च भृङ्ग राजकम् ।
जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत्
चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम् ।
अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत्
सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा ।
शतपुष्पा देवदारु एभिस्तैलं तु साधितम्
गोपुरीपरसेनैव चतुर्भागेन संयुतम् ।
तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत्
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव ।
कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च
मालतीपुप्पदलयो रसेन भरणात्तथा ।
गोजलेनैव पूरेण पूयस्त्रावो विनश्यति
कष्ठमाषमरीचानि तगरं मधु पिप्पली ।
अपामार्गो ऽश्वगन्धा च बृहती सितसर्षपाः
यवास्तिलाः सैन्धवं च पादिकोद्वर्तनं शुभम् ।
लिङ्गबाहुस्तनानां च कर्णयोर्वृद्धिकृद्भवेत् ।
कटुतैलं भल्लातकं बृहती फलदाडिमम्
वल्कलैः साधितैर्लिप्तं लिङ्गं तेन विवर्धते
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0