भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.175

1.175.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्राह्मीघृतादिवर्णनं नाम चतुः सप्तत्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 175
रुद्र उवाच ।
एवं धन्वन्तरिर्विष्णुः सुश्रुतादीनुवाच ह ।
हरिः पुनर्हरायाह नानायोगान्रुगर्दनान्

1.175.2

हरिरुवाच ।
सर्वज्वरेषु प्रथमं कार्यं शङ्कर लङ्घनम् ।
क्वथितोदकपानं च तथा निर्वातसेवनम्

1.175.3

अग्निस्वेदाज्ज्वरास्त्वेवं नाशमायान्तिहीश्वर ।
वातज्वरहरः क्वाथो गुडूच्या मुस्तकेन च

1.175.4

दुरालभैश्चैव घृतं पित्तज्वरहरः शृणु ।
शुण्ठीपर्पटमुस्तैश्च बालकोशीरचन्दनैः

1.175.5

साज्यः क्वाथः श्लेष्मजं तु सशुण्ठिः सदुरालभः ।
सवालकः सर्वज्ज्वरं सशुण्ठिः सहपर्पटः

1.175.6

किराततिक्तैर्नारीगुडूचीशुण्ठिमुस्तकैः ।
पित्तज्वरहरः स्याच्च शृण्वन्यं योगमुत्तमम्

1.175.7

वालकोशीरपाठाभिः कण्टकारिकमुस्तकैः ।
ज्वरनुच्च कृतः क्वाथस्तथा वै सुरदारुणा

1.175.8

धन्याकनिम्बमुस्तानां समधुः स तु शङ्कर ।
पटोलपत्रयुक्तस्तु गुडूचीत्रिफलायुतः

1.175.9

पीतो ऽखिलज्वरहरः क्षुधाकृद्वातनुत्त्विदम् ।
हरीतकीपिप्लीनामामलीचित्रकोद्भवम्

1.175.10

चूर्णं ज्वरं च क्वथितं धान्य (धन्या) कोशीरपपर्पटैः ।
आमलक्या गुडूच्या च मधुयुक्तं सचन्दनम्

1.175.11

समस्तज्वरनुच्च स्यात्सन्निपातहरं शृणु ।
हरिद्रानिम्बत्रिफलामुस्तकैर्देवदारुणा

1.175.12

कषायं कटुरोहिण्या सपटोलं सपत्रकम् ।
त्रिदोषज्वरनुच्चस्यात्पीतं तु क्वथितं जलम्

1.175.13

कण्टकार्या नागरस्य गुडूच्या पुष्करेण च ।
जग्ध्वा नागबलाचूर्णं श्वसकासादिनुद्भवेत्

1.175.14

कफवातज्वरे देयं जलमुष्णं पिपासिने ।
विश्वपर्पटकोशीरमुस्तचन्दनसाधितम्

1.175.15

दद्यात्सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ।
बिल्वादिप पञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे

1.175.16

पाचनं पिप्पलीमूलं गुडृचीविश्वभेषजम् ।
वातज्वरे त्वयं क्वाथो दत्तः शान्तिकरः परः

1.175.17

पित्तज्वरघ्नः समधुः क्वाथः पर्पटनिम्बयोः ।
विधाने क्रियमाणे ऽपि य्सय संज्ञा न जायते

1.175.18

पादयोस्तु ललाटे वा दहेल्लौहशलाकया ।
तिक्ता पाठा पर्पटाश्च विशाला त्रिफला त्रिवृत् ।
सक्षीरो भेदनः क्वाथः सर्वज्वरविशोधनः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc