भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.16

1.16.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणं नाम पञ्चदशो ऽध्यायः
श्रीगरुडमहापुराणम्- 16
रुद्र उवाच ।
पुनर्ध्यानं समाचक्ष्व शङ्खचक्रगदाधर ।
विष्णोरीशस्य देवस्य शुद्धस्य परमात्मनः

1.16.2

हरिरुवाच ।
शृणु रुद्र ! हरेर्ध्यानं संसारतरुनाशनम् ।
दृशिरूपमनन्तं च सर्वव्याप्यजमव्ययम्

1.16.3

अक्षरं सर्वगं नित्यं महब्द्रह्मास्ति केवलम् ।
सर्वस्य जगतो मूलं सर्वगं परमेशवरम्

1.16.4

सर्वभूतहृदिस्थं वै सर्वभूतमहेश्वरम् ।
सर्वाधारं निराधारं सर्वकारणकारणम्

1.16.5

अलेपकं तथा मुक्तं मुक्तयोगिविचितितम् ।
स्थूलदेहविहीनं च चक्षुषा परिवर्जितम्

1.16.6

वागिन्द्रियविहीनं च प्राणिधर्ंमविवर्जितम् ।
पादेन्द्रियविहीनं च वाग्धर्मपरिवर्जितम् ।
पायूपस्थविहीनं च सर्वैंन्द्रिय विवर्जितम्

1.16.7

मनोविरहितं तद्वन्मनोधर्ंमविवर्जितम् ।
बुद्ध्या विहीनं देवेशं चेतसा परिवर्जितम्

1.16.8

अहङ्कारविहीनं वै बुद्धिधर्ंमविवर्जितम् ।
प्राणेन रहितं चैव ह्यपानेन विवर्जितम्

1.16.9

व्यानाख्यवायुहीनं वै प्राणधर्ंमविवर्जितम् ।
हरिरुवाच ।
पुनः सूर्यर्चनं वक्ष्ये यदुक्तं भृगवे पुरा

1.16.10

ओं खखोल्काय नमः ।
सूर्यस्य मूलमन्त्रो ऽयं भुक्तिमुक्तिप्रदायकः

1.16.11

ओं खखोल्काय त्रिदशाय नमः ।
ओं विचि ठठ शिरसे नमः ।
ओं ज्ञानिने ठठ शिखायै नमः ।
ओं सहस्ररश्मये ठठ कवचाय नमः

1.16.12

ओं सर्वतेजो ऽधिपतये ठठ अस्त्राय नमः ।
ओं ज्वलज्वल प्रज्वलप्रज्वल ठठ नमः

1.16.13

अग्निप्राकारमन्त्रो ऽयं सूर्यस्याघविनाशनः ।
ओं आदित्याय विद्महे,विश्वभा वाय धीमहि, तन्नः सूर्य प्रचोदयात्

1.16.14

सकलीकरणं कुर्याद्रायत्र्या भास्करस्य च ।
धर्ंमात्मने च पूर्वस्मिन्यमा येति च दक्षिणे

1.16.15

दण्डनायकाय ततो दैवतायेति चोत्तरे ।
श्यामपिङ्गलमैशान्यामाग्नेय्यां दीक्षितं यजेत्

1.16.16

वज्रपाणिं च नैरृत्यां भूर्भुवःस्वश्च वायवे ।
ओं चन्द्राय नक्षत्राधिपतये नमः ।
ओं अङ्गारकाय क्षितिसुताय नमः ।
ओं बुधाय सोमसुताय नमः ।
ओं वागीश्वराय सर्वविद्याधिपतये नमः ।
ओं शुक्राय महर्षये भृगुसुताय नमः ।
ओं शनैश्चराय सूर्यात्मजाय नमः ।
ओं राहवे नमः ।
ओं केतवे नमः

1.16.17

पूर्वादीशानपर्यन्ता एते पूज्या वृषध्वज ।
ओं अनूकाय नमः ।
ओं प्रथमनाथाय नमः ।
ओं बुद्धाय नमः

1.16.18

ओं भगवन्नपरिमितमयूखमालिन् ! सकलजगत्पते ! सप्ताश्ववाहन ! चतुर्भुज ! परमसिद्धिप्रद ! विस्फुलिङ्गपिङ्गल ! तत एह्येहि इदमर्घ्यं मम शिरसि गतं गृह्णगृह्ण तेजोग्ररूपम् अनग्न ! ज्वलज्वल ठठ नमः

1.16.19

अनेनावाह्य मन्त्रेण ततः सूर्यं विसर्जयेत् ।
ओं नमो भगवते आदित्याय सहस्र किरणाय गच्छ सुखं पुनरागमनायेति

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc