गरुड़ पुराण · अध्याय 1.15
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ध्यानयोगो नाम चतुर्दशो ऽध्यायः
श्रीगरुडमहापुराणम्- 15
रुद्र उवाच ।
संसारसागराद्धोरामुच्यते किं जपन्प्रभो ।
नरस्तन्मे परं जप्यं पथय त्वं जनार्दन
हरिरुवाच ।
परेश्वरं परं ब्रह्म परमात्मानमव्ययम् ।
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः
यत्प वित्रं परं जप्यं कथयामि वृषध्वज ! ।
शृणुष्वावहितो भूत्वा सर्वपापविनाशनम्
ओं वासुदेवो महाविष्णुर्वामनो वासवो वसुः ।
बालचन्द्र निभो बालो बलभद्रो बलाधिपः
बलिबन्धनकृद्वेधा (11)वरेण्यो वेदवित्किविः ।
वेदकर्ता वेदरूपो वेद्यो वेदपरिप्लुतः
वेदाङ्गवेत्ता वेदेशो(20) बलाधारो बलार्दनः ।
अविकारो वरेशश्च वरुणो वरुणाधिपः
वीरहा च बृहद्वीरो वन्दितः परमेश्वरः (30) ।
आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः
पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः ।
परमः (40)परभूतश्च पुरुषोत्तम ईश्वरः
पद्मजङ्घः पुण्डरीकः पद्ममालाधरः प्रियः ।
पद्माक्षः पद्मगर्भश्च पर्जन्यः (50)पद्मसंस्थितः
अपारः परमार्थश्च पराणां च परः प्रभुः ।
पण्डितः पण्डितेड्यश्च पवित्रः पापमर्दकः
शुद्धः (60)प्रकाशरूपश्च पवित्रः परिरक्षकः ।
पिपासावर्जितः पाद्यः पुरुषः प्रकृतिस्तथाः
प्रधानं पृथिवीपद्मं पद्मनाभः (70)प्रियप्रदः ।
सर्वेशः सर्वगः सर्वः सर्ववित्सर्वदः सुरः
सर्वस्य जगतो धाम सर्वदर्शो च सर्वभृत् (80) ।
सर्वानुग्रहकृद्देवः सर्वभूतहृदि स्थितः
सर्वपूज्यश्च सर्वाद्यः सर्वदेवनमस्कृतः ।
सर्वस्य जगतो मूलं सकलो निष्कलो ऽनलः (90)
सर्वगोप्ता सर्वनिष्ठः सर्वकारणकारणम् ।
सर्वध्येयः सर्वमित्रः सर्वदेस्ववरूपधृक्
सर्वाध्यक्षः सुराध्यक्ष सुरासुरनमस्कृतः ।
दुष्टानां च सुराणां च सर्वदा घातको ऽन्तकः (101)
सत्यपालश्च सन्नाभः सिद्धेशः सिद्धवन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो (सिद्धिसिद्ध) हृदीश्वरः
शरणं जगतश्चैव (110)श्रेयः क्षेमस्तथैव च ।
शुभकृच्छोभनः सौम्यः सत्यः सत्यपराक्रमः
सत्यस्थः सत्यसङ्कल्पः सत्यवित्सत्य (त्प) दस्तथा (121) ।
धर्मो धर्ंमो च कर्मो च सर्वकर्ंमविवर्जितः
कर्ंमकर्ता च कर्मैव क्रिया कार्यं तथैव च ।
श्रीपतिर्नृपतिः (131)श्रीमान्सर्वस्य पतिरूर्जितः
सदेवानां पतिश्चैव वृष्णीनां पतिरीडितः ।
पतिर्हिरण्यगर्भस्य त्रिपुरान्तपतिस्तथा
पशूनां च पतिः प्रायो वसूनां पतिरेव च (140) ।
पतिराखण्डलस्यैव वरूणस्य पतिस्तथा
वनस्पतीनां च पतिरनिलस्य पतिस्तथा ।
अनलस्य पतिश्चैव यमस्य पतिरेव च
कुबेरस्य पतिश्चैव नक्षत्राणां पतिस्तथा ।
ओषधीनां पतिश्चैव वृक्षाणां च पतिस्तथा (150)
नागानां पतिरर्कस्य दक्षस्य पतिरेव च ।
सुहृदां च पतिश्चैव नृपाणां च पतिस्तथा
गन्धर्वाणां पतिश्चैव असूनां पतिरुत्तमः ।
पर्वतानां पतिश्चैव निम्नगानां पतिस्तथा
सुराणां च पतिः श्रेष्ठः (160) कपिलस्य पतिस्तथा ।
लतानां च पतिश्चैव वीरुधां च पतिस्तथा
मुनीनां च पतिश्चैव सूर्यस्य पतिरुत्तमः ।
पतिश्चन्द्रमसः श्रेष्ठः सुक्रस्य पतिरेव च
ग्रहाणां च पतिश्चैव राक्षसानां पतिस्तथा ।
किन्नराणां पतिश्चैव (170)द्विजानां पतिरुत्तमः
सरितां च पतिश्चैव समुद्राणां पतिस्तथा ।
सरसां च पतिश्चैव भूतानां च पतिस्तथा
वेतालानां पतिश्चैव कूष्माण्डानां पतिस्तथा ।
पक्षिणां च पतिः श्रेष्ठः पशूनां पतिरेव च
महात्मा (180)मङ्गलो मेयो मन्दरो मन्दरेश्वरः ।
मेरुर्माता प्रमाणं च माधवो मलवर्जितः
मालाधरो (190)महादेवो महादेवेन पूजितः ।
महाशान्तो महाभागो मधुसूदन एव च
महावीर्यो महाप्राणो मार्कण्डेयर्षिवन्दितः(200) ।
मायात्मा मायया बद्धो मायया तु विवर्जितः
मुनिस्तुतो मुनिर्मैत्रो (210)महाना (रा) सो महाहनुः ।
महाबाहुर्महादान्तो मरणेन विवर्जितः
महावत्क्क्रो महात्मा च महाकायो महोदरः ।
महापादो महाग्रीवो महामानी महामनाः
महागतिर्मंहाकीर्तिर्महारूपो (222)महासुरः ।
मधुश्च माधवश्चैव महादेवो महेश्वरः
मखेज्यो मखरूपी च माननीयो (230)मखेश्वरः ।
महावातो महाभागो महेशो ऽतीतमानुषः
मानवश्च मनुश्चैव मानवानां प्रियङ्करः ।
मृगश्च मृगपूज्यश्च (240)मृगाणां च पतिस्तथा
बुधस्य च पतिश्चैव पतिश्चैव बृहस्पतेः ।
पतिः शनैश्चरस्यैव राहोः केतोः पतिस्तथा
लक्ष्मणो लक्षणश्चैव लम्बौष्ठो ललितस्तथा(250) ।
नानालङ्कारसंयुक्तो नानाचन्दनचर्चितः
नानारसोज्जवलद्वक्क्रो नानापुष्पोपशोभितः ।
रामो रमापतिश्चैव सभार्यः परमेश्वरः
रत्नदो रत्नहर्ता च(260)रूपी रूपविवर्जितः ।
महारूपोग्ररूपश्च सौम्यरूपस्तथैव च
नीलमेघनिभः शुद्धः सालमेघनिभस्तथा ।
धूमवर्णः पतिवर्णो नानारूपो(270)ह्यवर्णकः
विरूपो रूपदश्चैव शुक्लवर्णस्तथैव च ।
सर्ववर्णो महायोगी यज्ञो (याज्यो) यज्ञकृदेव च
सुवर्णवर्णवांश्चैव सुवर्णाख्यस्तथैव च (280)सुवर्णावयवश्चैव सुवर्णः स्वर्णमेखलः
सुवर्णस्य प्रदाता च सुवर्णेशस्तथैव च ।
सुवर्णस्य प्रियश्चैव (290)सुवर्णाढ्यस्तथैव च
सुपर्णो च महापर्णो सुपर्णस्य च कारण्(290) ।
वैनतेयस्तथादित्य आदिरादिकरः शिवः
कारणं महतश्चैव प्रधानस्य च कारणम् ।
बुद्धीनां कारणं चैव कारणं मनसस्तथा
कारणं चैतसश्चैव(300)अहङ्कारस्य कारणम् ।
भूतानां कारणं तद्वत्कारणं च विभावसोः
आकाशकारणं तद्वत्पृथिव्याः कारणं परम् ।
अण्डस्य कारणं चैव प्रकृतेः कारणं तथा
देहस्य कारणं चैव चक्षुषश्चैव कारणम् ।
श्रोत्रस्य कारणं(310) तद्वत्कारणं च त्वचस्तथा
जिह्वायाः कारणं चैव प्राणस्यैव च कारणम् ।
हस्तयोः कारणं तद्वत्पादयोः कारणं तथा
वाचश्चकारणं तद्वत्पायोश्चैव तुकारणम् ।
इन्द्रस्य कारणं चैव कुबेरस्य च कारणम्
यमस्य कारणं चैव (320)ईशानस्य च कारणम् ।
यक्षाणां कारणं चैव रक्षसां कारणं परम्
नृपाणां कारणं श्रेष्ठं धर्ंमस्यैव तु कारणम् ।
जन्तूनां कारणं चैव वसूनां कारणं परम्
मनूनां कारणं चैव पक्षिणां कारणं परम् ।
मुनीनां कारणं श्रेष्ठ(330)योगिनां कारणं परम्
सिद्धानां कारणं चैव यक्षाणां कारणं परम् ।
कारणं किन्नराणां च(340) गन्धर्वाणां च कारणम्
नदानां कारणं चैव नदीनां कारणं परम् ।
कारणं च समुद्राणां वृक्षाणां कारणं तथा
कारणं वीरुधां चैव लोकानां कारणं तथा ।
पाताल कारणं चैव देवानां कारणं तथा
सर्पाणां कारणं चैव(350)श्रेयसां कारणं तथा ।
पूशनां कारणं चैव सर्वेषां कारणं तथा
देहात्मा चेन्द्रियात्मा च आत्मा बुद्धिस्तथैव च ।
मनसश्च तथैवात्मा चात्माहङ्कारचेतसः
जाग्रतः स्वपतश्चात्मा (360)महदात्मा परस्तथा ।
प्रधानस्य परात्मा च आकाशात्मा ह्यपां तथा
पृथिव्याः परमात्मा च रसस्यात्मा तथैव च ।
गन्धस्य परमात्मा च रूपस्यात्मा परस्तथा
शब्दात्मा चैव (370)वागात्मा स्पर्शात्मा पुरुषस्तथा ।
श्रोत्रात्मा च त्वगात्मा च जिह्वायाः परमस्तथा
घ्राणात्मा चैव हस्तात्मा पादात्मा परमस्तथा(380) ।
उपस्थस्य तथैवात्मा पाय्वात्मा परमस्तथा
इन्द्रात्मा चैव ब्रह्मात्मा रुद्रा(शान्ता)त्मा च मनोस्तथा ।
दक्षप्रजापतेरात्मा सत्या (स्रष्टा)त्मा परमस्तथा
ईशात्मा(390)परमात्मा च रौद्रात्मा मोक्षविद्यतिः ।
यत्नवांश्च तथा यत्नश्चर्ंमो खड्गी मुरान्तकः
ह्रीप्रवर्तनशीलश्च यतीनां च हिते रतः ।
यतिरूपी च (400)योगी च योगिध्येयो हरिः शितिः
संविन्मेधा च कालश्च ऊष्मा वर्षा म(न) तिस्तथा(410) ।
संवत्सरो मोक्षकरो मोहप्रध्वंसकस्तथा
मोहकर्ता च दुष्टानां माण्डव्यो वडवामुखः ।
संवर्तः कालकर्ता च गौतमो भृगुरङ्गिराः (420)
अत्निर्वसिष्ठः पुलहः पुलस्त्यः कुत्स एव च ।
याज्ञवल्क्यो देवलश्च व्यासश्चैव पराशरः
शर्ंमदश्चैव(430) गाङ्गेयो हृषीकेशो बृहच्छ्रवाः ।
केशवः क्लेशहन्ता च सुकर्णः कर्णवर्जितः
नारायणो महाभागः प्राणस्य पतिरेव च (440) ।
अपानस्य पतिश्चैव व्यानस्य पतिरेव च
उदानस्य पतिः श्रेष्ठः समानस्य पतिस्तथा ।
शब्दस्य च पतिः श्रेष्ठः स्पर्शस्य पतिरेव च
रूपाणां च पतिश्चाद्यः खङ्गपाणिर् हलायुधः(450) ।
चक्रपाणिः कुण्डली च श्रीवत्सांकस्तथैव च
प्रकृतिः कौस्तुभग्रीवः पीताम्बरधरस्तथा ।
सुमुखो दुर्मुखश्चैव मुनखेन तु विवर्जितः
अनन्तो ऽनन्तरूपश्च(461)सुनखः सुरमन्दरः ।
सुकपोलो विभुर्जिष्णुर्भ्राजिष्णुश्चैषुधीस्तथा
हिरण्यकशिपोर्हन्ता हिरण्याक्षविमर्दकः (470) ।
निहन्ता पूतनायाश्च भास्करान्तविनाशनः
केशिनो दलनश्चैव मुष्टिकस्य विमर्दकः ।
कंसदानवभेत्ता च चाणूरस्य प्रमर्दकः
अरिष्टस्य निहन्ता च अक्रूरप्रिय एव च ।
अक्रूरः क्रूररूपश्च(480)अक्रूरप्रियवन्दितः
भगहा भगवान् भानुस्तथा भागवतः स्वगवतः स्वयम् ।
उद्धवश्चोद्धवस्येशो ह्युद्धेवन विचिन्तितः
चक्रधृक् चञ्चलश्चैव(490) चलाचलविवर्जितः ।
अहं कारोपमाश्चित्तं गगनं पृथिवी जलम्
वायुश्चक्षुस्तथा श्रोत्रं(500)जिह्वा च घ्राणमेव च ।
वाक्पाणिपादजवनः पायूपस्थस्तथैव च
शङ्करश्चैव सर्वश्च क्षान्तिदः क्षान्तिकृन्नरः (511) ।
भक्तप्रियस्तता भर्ता भक्तिमान् भक्तिवर्धनः
भक्तस्तुतो भक्तपरः कीर्तिदः कीर्तिवर्धनः ।
कीर्तिर्देप्तिः (520) क्षमाकान्तिर्भक्तश्चैव (530) दया परा
दानं दाता च कर्ता च देवदेवप्रियः शुचिः ।
शुचिमा न्सुखदो (531)मोक्षः कामश्चार्थः सहस्रपात्
सहस्रशीर्षा वैद्यश्च मोक्षद्वारं तथैव च ।
प्रजाद्वारं सहस्राक्षः सहस्रकर एव च(540)
शुक्रश्च सुकिरीटी च सुग्रीवः कौस्तुभस्तथा ।
प्रद्युम्नश्चानिरुद्धश्च हयग्रीवश्च सूकरः
मत्स्यः परशुरामश्च(550)प्रह्रादो बलिरेवच ।
शरण्यश्चैव नित्यश्च बुद्धो मुक्तः शरीरभृत्
खरदूषणहन्ता च रावणस्य प्रमर्दनः ।
सीतापतिश्च (560)वर्धिष्णुर्भरतश्च तथैव च
कुम्भेन्द्रजिन्निहन्ता च कुम्भकर्णप्रमर्दनः ।
नरान्तकान्तकश्चैव देवान्तकविनाशनः
दुष्टासुरनिहन्ता च शम्बरारिस्तथैव च ।
नरकस्य निहन्ता च त्रिशीर्षस्य विनाशनः (570)
यमलार्जनभेत्ता च तपोहितकरस्तथा ।
वादित्रं चैव वाद्यं च बुद्धश्चैव वरप्रदः
सारः सारप्रियः सौरः कालहन्तृनिकृन्तनः(580) ।
अगस्त्यो देवलश्चैव नारदो नारदप्रियः
प्राणो ऽपानस्तथा व्यानो रजः सत्त्वं तमः (590)शरत् ।
उदानश्च समानश्च भेषजं च भिषक् तथा
कूटस्थः स्वच्छरूपश्च सर्वदेहविवर्जितः ।
चक्षुरिन्द्रियहीनश्च वागिन्द्रियविवर्जितः(600)
हस्तेन्द्रियविहीनश्च पादाभ्यां च विवर्जितः ।
पायूपस्थविहीनश्च मरुतापविवर्जितः
प्रबोधेन विहीनश्च बुद्ध्या चैव वि वर्जितः ।
चेतसा विगतश्चैव प्राणेन च विवर्जितः
अपानेन विहीनश्च व्यानेन च विवर्जितः(610) ।
उदानेन विहीनश्च समानेन विवर्जितः
आकाशेन विहीनश्च वायुना परिवर्जितः ।
अग्निना च विहीनश्च उदकेन विवर्जितः
पृथिव्या च विहीनश्च शब्देन च विवर्जितः ।
स्पर्शेन च विहीनश्च सर्वरूपविवर्जितः(620)
रागेण विगतश्चैव अघेन परिवर्जितः ।
शोकेन रहितश्चैव वचसा परिवर्जितः
रजो विवर्जितश्चैव विकारैः षड्भिरेव च ।
कामेन वर्जितश्चैव क्रोधेन परिवर्जितः
लोभेन विगतश्चैव दम्भेन च विवर्जितः ।
सूक्ष्मश्चैव (630)सुसूक्ष्मश्च स्थूलात्स्थूलतरस्तथा
विशारदो बलाध्यक्षः सर्वस्य क्षोभकस्तथा ।
प्रकृतेः क्षोभकश्चैव महतः क्षोभकस्तथा
भूतानां क्षोभकश्चैव बुद्धेश्च क्षोमकस्तथा ।
इन्द्रियाणां क्षोभकश्च(640)विषयक्षोभकस्तथा
ब्रह्मणः क्षोभकश्चैव रुद्रस्य क्षोभकस्तथा ।
अगम्यश्चक्षुरादेश्च श्रोत्रागम्यस्तथैव च
त्वचा न गम्यः कूर्ंमश्च जिह्वाग्राह्यस्तथैव च ।
ग्राणोन्द्रियागम्य एव वाचाग्राह्यस्तथैव च (650)
अगम्यश्चैव पाणिभ्यां पदागम्यस्तथैव च ।
अग्राह्यो मनसश्चैव बुद्ध्याग्राह्यो हरिस्तथा
अहं बुद्ध्या तथा ग्राह्यश्चेतसा ग्राह्या एव च ।
शङ्खपाणिश्चाव्ययश्च गदापाणिस्तथैव च (660)
शार्ङ्गपाणिश्च कृष्णश्च ज्ञानमूर्तिः परन्तपः ।
तपस्वी ज्ञानगम्यो हि ज्ञानी ज्ञानविदेव च
ज्ञेयश्च ज्ञेयहीनश्च (670) ज्ञप्तिश्चैतन्यरूपकः ।
भावो भाव्यो भवकरो भावनो भवनाशनः
गो विन्दो गोपतिर्गोपः(680)सर्वगोपीसुखप्रदः ।
गोपालो गोगतिश्चैव गोमतिर्गोधरस्तथा
उपेन्द्रश्च नृसिंहश्च शौरिश्चैव जनार्दनः ।
आरणेयो(690) बृहद्भानुर्बृहद्दीप्तिस्तथैव च
दामोदरस्त्निकालश्च कालज्ञः कालवर्जितः ।
त्रिसन्ध्यो द्वापरं त्रेता प्रजाद्वारं(700)त्रिविक्रमः
विक्रमो दण्ड(र) हस्तश्च ह्येकदण्डी त्रिदण्डधृक् ।
सामभेदस्तथोपायः सामरूपी च सामगः
सामवेदोः(710)ह्यथर्वश्च सुकृतः सुतरूपणः ।
अथर्ववेदविच्चैव ह्यथर्वाचार्य एव च
ऋग्रूपी चैव ऋग्वेद ऋग्वेदेषु प्रतिष्ठितः ।
यजुर्वेदो(720)यजुर्वेदविदेकपात्
बहुपाच्च सुपाच्चैव तथैव च सहस्रपात् ।
चतुष्पाच्च द्विपाच्चैव स्मृतिर्न्यायो यमो बली(730)
सन्न्यासी चै सन्नयासश्चतुराश्रम एव च ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः
ब्राह्मणः क्षत्रियो वैश्यः (740)शूद्रो वर्णस्तथैव च ।
शीलदः शीलसम्पन्नो दुः शीलपरिवर्जितः
मोक्षो ऽध्यात्मसमाविष्टः स्तुतिः स्तोता च पूजकः ।
पूज्यो(750)वाक् करणं चैव वाच्यं चैव तु वाचकः
वेत्ता व्याकरणं चैव वाक्यं चैव च वाक्यवित् ।
वाक्यगम्यस्तीर्थवासी(760) तीर्थस्तीर्थो च तीर्थवित्
तीर्थादिभूतः सांख्यश्च निरुक्तं त्वधिदैवतम् ।
प्रणवः प्रणवेशश्च प्रणवेन प्रवन्दितः(770)
प्रणवेन च लक्ष्यो वै गायत्री च गदाधरः ।
शालग्रामनिवासी च (780)शालग्रामस्तथैव च
जलशायी योगशायी शेषशायी कुशेशयः ।
महीभर्ता च (790) कार्यं च कारणं पृथिवीधरः
प्रजापतिः शाश्वतश्च काम्यः कामयिता विराट् ।
सम्राट् पूषा(800) तथा स्वर्गो रथस्थः सारथिर्बलम्
धनी धनप्रदो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो(810)भीम एव च
पराक्रमो दुर्विषहः सर्वशास्त्रविशारदः ।
सारस्वतो महाभीष्मः पारिजातहरस्तथा
अमृतस्य प्रदाता च क्षीरोदः क्षीरमेव च (820) ।
इन्द्रात्मजस्तस्य गोप्ता गोवर्धनधरस्तथा
कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः ।
शिपिविष्टः प्रसन्नश्च सर्वलोकार्तिनाशनः
मुद्रो(830)मुद्रा करश्चैव सर्वमुद्राविवर्जितः ।
देही देहस्थितश्चैव देहस्य च नियामकः
श्रोत्रा श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा ।
त्वक्स्थितश्च(840)स्पर्शयित्वा स्पृश्यं च स्पर्शनं तथा
रूपद्रष्टा च चक्षुः स्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैवतु जिह्वास्थो रसज्ञश्च नियामकः (850)
घ्राणस्थो घ्राणकृद् घ्राता घ्राणेन्द्रियनियामकः ।
वाक्स्थो वक्ता च वक्तव्यो वचनं वाङ्नियामकः
प्राणिस्थः (860)शिल्प कृच्छिल्पो हस्तयोश्च नियामकः ।
पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा
नियन्ता पादयोश्चैव पाद्यभाक्च विसर्गकृत्(870) ।
विसर्गस्य नियन्ता च ह्युपस्थस्थः सुखं तथा
उपस्थस्य नियन्ता च तदानन्दकरश्च ह ।
शत्रुघ्नः कार्तवीर्यश्च दत्तात्रेयस्तथैव च
अलर्कस्य हितश्चैव कार्तवीर्यनिकृन्तनः (880) ।
कालनेमिर्महानेमिर्मेघो मेघपतिस्तथा
अन्नप्रदो ऽन्नरूपी च ह्यन्नादो ऽन्नप्रवर्तकः ।
धूमकृद्धूमरूपश्च(890) देवकीपुत्र उत्तमः
देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च ।
वसुदेवप्रियश्चैव वसुदेवसुतस्तथा
दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च (900) ।
अट्टहासप्रियश्चैव सर्वाध्यक्षः क्षरो ऽक्षरः
अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तथा
गोपीनां वल्लभश्चैव(910)पुण्यश्लोकश्च विश्रुतः ।
वृषाकपिर्यमो गुह्यो मकुलश्च बुधस्तथा
राहुः केतुर्ग्रहो ग्राहो(920) गजेन्द्रमुखमेलकः ।
ग्राहस्य विनिहन्ता च ग्रामी रक्षकस्तथा
किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो(930) दैत्यसूदन एव च
अनन्तरूपो भूतस्थो देवदानवसंस्थितः ।
सुषुप्तिस्थः सुषुप्तिश्च स्थानं स्थानान्त एव च
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (940) ।
स्वप्रस्थः स्वप्रवित्स्वप्नस्थानं स्वप्नस्तथैव च
जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः ।
विज्ञानं वेद्यरूपं च जीवो जीवयिता तथा (950)
भुवनाधिपतिश्चैव भुवनानां नियामकः ।
पातालवासी पातालं सर्वज्वरविनाशनः
परमानन्दरूपी च धर्ंमाणां च प्रवर्तकः ।
सुलभो दुर्लभश्चैव प्राणायामपरस्तथा(960)
प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा ।
प्रभा कान्तिस्तथा ह्यर्चिः शुद्धस्फटिकसन्निभः
अग्राहश्चैव गौरश्च सर्वः(970)शुचिरभिष्टुतः ।
वषट्कारो वषड् वौषट् स्वधा स्वाहा रतिस्तथा
पक्ता नन्दयिता(980)भोक्ता बोद्धा भावयिता तथा ।
ज्ञानात्मा चैव देहात्मा भू(उ) मा सर्वेश्वरेश्वरः
नदी नन्दी च नन्दीशो(990)भारतस्तरुनाशनः ।
चक्रपः श्रीपतिश्चैव नृपाणां चक्रवर्तिनाम्
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा ।
पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव च (1000)
भरतो जनको जन्यः सर्वाकारवि वर्जितः ।
निराकारो निर्निमित्तो निरातङ्को निराश्रयः (1008)
इति नामसहस्रं ते वृषभध्वज कीर्तितम् ।
देवस्य विष्णोरीशश्य सर्वपापविनाशनम्
पठन्द्विजश्च विष्णुत्वं क्षत्रियो जयमाप्नुयात् ।
वैश्यो धनं सुखं शूद्रो विष्णुभक्तिसमन्वितः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0