गरुड़ पुराण · अध्याय 1.14
इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपञ्जरस्तोत्रं नाम त्रयोदशो ऽध्यायः
श्रीगरुडमहापुराणम्- 14
हरिरुवाच ।
अथ योगं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम् ।
ध्यायिभिः प्रोच्यते ध्येयो ध्यानेन हरिरीश्वरः
तच्छृणुष्व महेशान सर्वपापविनाशनम् ।
विष्णुः सर्वेश्वरो ऽनन्तः षड्भिर्भूपरिवर्जितः
वासुदेवो जगन्नाथो ब्रह्मात्मास्म्यहमेव हि ।
देहिदेहस्थितो नित्यः सर्वदेहविवर्जितः
देहधर्ंमविहीनश्च क्षराक्षरविवर्जितः ।
षड्विधेषु स्थितो द्रष्टा श्रोता घ्राता ह्यतीन्द्रियः
तद्धर्ंमरहितः स्रष्टा नामगोत्रविवर्जितः ।
मन्ता मनः स्थितो देवो मनसा परिवर्जितः
मनोधर्ंमविहीनश्च विज्ञानं ज्ञानमेव च ।
बोद्धा बुद्धिस्थितः साक्षी सर्वज्ञो बुद्धिवर्जितः
बुद्धिधर्ंमविहीनश्च सर्वः सर्वगतो मनः ।
सर्वप्राणिविनिर्मुक्तः प्राणधर्ंमविवर्जितः
प्राणप्राणो महाशान्तो भयेन परिवर्जितः ।
अहङ्कारादिहीनश्च तद्धर्ंमपरिवर्जितः
तत्साक्षी तन्नियन्ता च परमानन्दरूपकः ।
जाग्रत्स्वप्नसुषुप्तिस्थस्तत्साक्षी तद्विवर्जितः
तुरीयः परमो धाता दृग्रूपो गुणवर्जितः ।
मुक्तो बुद्धो ऽजरो व्यापी सत्य आत्मास्म्यहं शिवः
एवं ये मानवा विज्ञा ध्यायन्तीशं परं पदम् ।
प्राप्नुयुस्ते च तद्रूपं नात्र कार्या विचारणा
इति ध्यानं समाख्यातं तव शङ्कर सुव्रत ।
पठेद्य एतत्सततं विष्णुलोकं स गच्छति
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0