भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.145

1.145.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हरिवंशवर्णनं नाम चतुश्चात्वारिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 145
ब्रह्मोवाच ।
भारतं संप्रवक्ष्यामि भारावतरणं भुवः ।
चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः

1.145.2

विष्णुनाभ्यब्जतो ब्रह्मा ब्रह्मपुत्रो ऽत्रिरत्रितः ।
सोमस्ततो बुधस्तस्मादिलायां च पुरूरवाः

1.145.3

तस्यायुस्तत्र वंशे ऽभूद्ययातिर्भरतः कुरुः ।
शन्तनुस्तस्य वंशे ऽभूद्गङ्गायां शन्तनोः सुतः

1.145.4

भीष्मः सर्वगुणैयुक्तो ब्रह्मवैवर्तपारगः

1.145.5

शन्तनोः सत्यवत्यां च द्वौ पुत्रौ संबभूवतुः ।
चित्राङ्गदन्तु गन्धर्वः पुत्रं चित्राङ्गदो ऽवधीत्

1.145.6

अन्यो विचित्रवीर्यो ऽभूत्काशीराजसुतापतिः ।
विचित्रवीर्ये स्वर्याते व्यासात्तत्क्षेत्रतो ऽभवत्

1.145.7

धृतराष्टो ऽम्बिकापुत्रः पाण्डुराम्बालिकासुतः ।
भुजिष्यायान्तु विदुरो गान्धार्यां धृतराष्ट्रतः

1.145.8

दुर्योधनप्रधानास्तु शतसंख्या महाबलाः ।
पाण्डोः कुन्त्याञ्च माद्यां च पञ्च पुत्राः प्रजज्ञिरे

1.145.9

युधिष्ठिरो भीमसेनो ह्यर्जुनो नकुलस्तथा ।
सहदेवश्च पञ्चैते महाबलपराक्रमाः

1.145.10

कुरुपाण्डवयोर्वैरं दैवयो गाद्बभूव ह ।
दुर्योधनेनाधीरेण पाण्डवाः समुपद्रुताः

1.145.11

दग्धा जतुगृहे वीरास्ते मुक्ताः स्वधियामलाः

1.145.12

ततस्तदेकचक्रायां ब्राह्मणस्य निवेशने ।
विविशुस्ते महात्मानो निहत्य बकराक्षसम्

1.145.13

ततः पाञ्चालविषयेद्रौपद्यास्ते स्वयंवरम् ।
विज्ञाय वीर्यशुल्कान्तां पाण्डवा उपयेमिरे

1.145.14

द्रोणभीष्मानुमत्या तु धृतराष्ट्रः समानयत् ।
अर्द्वराज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे

1.145.15

राजसूयन्ततश्चक्रुः सभां कृत्वा यतव्रताः ।
अर्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान्प्रियाम् ।
वासुदेवस्य भगिनीमनुमत्या मुरद्विषः

1.145.16

नन्दिघोषं रथं दिव्यमग्नेर्घनुरनुत्तमम् ।
गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् ।
अक्षयान्सायकांश्चैव तथाभेद्यञ्च दंशनम्

1.145.17

स तेन धनुषा वीरः पाण्डवो जातवेदसम् ।
कृष्णद्वितीयो बीभत्सुरतर्पयत वीर्यवान्

1.145.18

नृपान्दिग्विजये जित्वा रत्नान्यादाय वै ददौ ।
युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा

1.145.19

युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः परिवारितः ।
जितो दुर्योधनेनैव मायाद्यूतेन पापिना ।
कर्णदुः शासनमते स्थितेन शकुनेर्मते

1.145.20

अथ द्वादश वर्षाणि वने तेपुर्महत्तपः ।
सधौम्या द्रौपदीषष्ठा मुनिवृन्दाभिसंवृताः

1.145.21

ययुर्विराटनगरं गुप्तरूपेण संश्रिताः ।
वर्षमेकं महाप्राज्ञा गोग्रहात्तमपालयन्

1.145.22

तते याताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः ।
पञ्चग्रामानर्धराज्याद्वीरा दुर्योधनं नृपम्

1.145.23

नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः ।
अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः

1.145.24

एकादशभिरुद्युक्ता युक्ता दुर्योधनादयः ।
आसीद्युद्धं संकुलं च देवासुररणोपमम्

1.145.25

भीष्मः सेनापतिरभूदादौ दौर्योधने बले ।
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।
शस्त्राशस्त्रि महाघोरं धसरात्रं शराशरि

1.145.26

शिखण्ड्यर्जुनबाणैश्च भीष्मः शरशतैश्चितः ।
उत्तरायणमावीक्ष्य ध्यात्वा देवं गदाधरम्

1.145.27

उक्त्वा धर्मान्बहुविधांस्तर्पयित्वा पितॄन्बहून् ।
आनन्दे तु पदे लीनो विमले मुक्तकिल्बिषे

1.145.28

ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन बीर्यवान् ।
दिनानि पञ्च तद्युद्धमासीत्परमदारुणम्

1.145.29

यत्र ते पृथिवीपाला हताः पार्थेन संगरे ।
शोकसागरमासाद्य द्रोणो ऽपि स्वर्गमाप्तवान्

1.145.30

ततः कर्णा ययौ योद्धुमर्जुनेन मिहात्मना ।
दिनद्वयं महायुद्धं कृत्वा पार्थास्त्रसागरे ।
निमग्नः सूर्यलोकन्तु ततः प्राप स वीर्यवान्

1.145.31

ततः शल्यो ययौ योद्धुं धर्मराजेन धीमता ।
दिनार्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः

1.145.32

दुर्योधनो ऽथ वेगेन गदामादाय वीर्यवान् ।
अभ्यधावत वै भीभं कालान्तकयमोपमः

1.145.33

अथ भीमेन वीरेण गदया विनिपातितः ।
अश्वत्थामा गतो द्रौणिः सुप्तसैन्यं ततो निशि

1.145.34

जघान बाहुवीर्येण पितुर्वधमनुस्मरन् ।
धृष्टद्युम्नं जघानाथ द्रौपदेयांश्च वीर्यवान्

1.145.35

द्रौपद्यां रुद्यमानायामश्वत्थाम्नः शिरोमणिम् ।
ऐषिकास्त्रेण तं जित्वा जग्राहार्जुन उत्तमम्

1.145.36

युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसंकुलम् ।
स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान्

1.145.37

आश्वासितो ऽथ भीष्मेण राज्यञ्चैवाकरोन्महत् ।
विष्णुमीजे ऽश्वमेधेन विधिवद्दक्षिणावता

1.145.38

राज्ये परीक्षितं स्थाप्य यादवानां विनाशनम् ।
श्रुत्वा तु मौसले राजा जप्त्वा नामसहस्रकम्

1.145.39

विष्णोः स्वर्गं जगामाथ भीमाद्यैर्भ्रातृभिर्युतः ।
वासुदेवः पुनर्बुद्ध-संमोहाय सुरद्विषाम्

1.145.40

कल्किर्विष्णुश्च भविता शंभलग्रामके पुनः ।
अश्वारूढो ऽखिलांल्लोकांस्तदा भस्मीकरिष्यति

1.145.41

देवादीनां रक्षणाय ह्यधर्महारणाय च ।
दुष्टानाञ्च वधार्थाय ह्यवतारं करोति च

1.145.42

यथा धन्वन्तरिर्वंशे जातः क्षीरोदमन्थने ।
देवादीनां जीवनाय ह्यायुर्वेदमुवाच ह

1.145.43

विश्वामित्रसुतायैव शुश्रुताय महात्मने ।
भारतांश्चावतारांश्च श्रुत्वा स्वर्गं व्रजेन्नरः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc