भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.144

1.144.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रामायणवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 144
ब्रह्मोवाच ।
हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यमुत्तमम् ।
वसुदेवात्तु देवक्यां वासुदेवो बलो ऽभवत्

1.144.2

धर्मादिरक्षणार्थाय ह्यधर्मादिविनष्टये ।
कृष्णः पीत्वा स्तनौ गाढं पूतनामनयत्क्षयम्

1.144.3

शकटः परिवृत्तो ऽथ भग्नौ च यमलार्जुनौ ।
दमितः कालियो नागो धेनुको विनिपातितः

1.144.4

धृतो गोवर्धनः शैल इन्द्रेण परिपूजितः ।
भारावतरणं चक्रे प्रतिज्ञां कृतवान्हरिः

1.144.5

रक्षणायार्जुनादेश्च ह्यरिष्टादिर्निपातितः ।
केशी विनिहतो दैत्यो गोपाद्याः परितोषिताः

1.144.6

चाणूरो मुष्टिको मल्लः कंसो मञ्चान्निपातितः ।
रुक्मिणीसत्यभामाद्याः ह्यष्टौ पत्न्यो हरेः पराः

1.144.7

षोढश स्त्रीसहस्राणि ह्यन्यान्यास महात्मनः ।
तासां पुत्राश्च पौत्राद्याः शतशो ऽथ सहस्रशः

1.144.8

रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीच्छंबरञ्च यः ।
तस्य पुत्रो ऽनिरुद्धो ऽभूदुषाबाणसुतापतिः

1.144.9

हरिशकरयोर्यत्र महायुद्धं बभूव ह ।
बाणबाहुसहस्रञ्च च्छिन्नं बाहुद्वयं ह्यभूत्

1.144.10

नरको निहतो येन पारिजातं जहार यः ।
बलश्च शिसुपालश्च हतश्च द्विविदः कपिः

1.144.11

अनिरुद्धादभूद्वज्रः स च राजा गते हरौ ।
सन्दीपनिं गुरुञ्चक्रे सपुत्रञ्च चकार सः ।
मथुरायां चोग्रसेनं पालनं च दिवौकसाम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc