गरुड़ पुराण · अध्याय 1.13
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पूजानुक्रमनिरूपणं नाम द्वादशो ऽध्यायः
श्रीगरुडमहापुराणम्- 13
हरिरुवाच ।
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् ।
नमोनमस्ते मोविदं चक्रं गृह्य सुदर्शनम्
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ।
गदां कौमोदकीं गृह्ण पद्मनाभ नमो ऽस्त ते
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ।
हलमादाय सौनन्दे नमस्ते पुरुषोत्तम
प्रतीच्यां रक्ष मां विष्णो ! त्वामह शरणं गतः ।
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम्
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः ।
खड्गमादाय चर्ंमाथ अस्त्रशास्त्रादिकं हरे !
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः ।
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम्
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष सूकर ।
चन्द्रसूर्यं समागृह्य खड्गं चान्द्रमसं तथा
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ।
वैजयन्तीं स्मप्रगृह्य श्रीवत्सं कण्ठभूषणम्
वायव्यां रक्ष मां देव हयग्रीव नमो ऽस्तु ते ।
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन !
मां रक्षस्वाजित सदा नमस्ते ऽस्त्वपराजित ।
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले
अकूपार नमस्तुभ्यं महामीन नमो ऽस्तु प्ते ।
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम्
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ।
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत्
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ।
नाशायामास सा येन चामरान्महिषासुरम्
दानवं रक्तबीजं च अन्यांश्च सुरकण्टकान् ।
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0