भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.119

1.119.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽखण्डद्वादशीव्रतकथनंनामाष्टादशोत्तर शततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 119
ब्रह्मोवाच ।
अगस्त्यार्घ्यव्रतं वक्ष्ये भुक्तिमुक्तिप्रदायकम् ।
अप्राप्ते भास्करे कन्यां सति भागे त्रिभिर्दिनैः

1.119.2

अर्घ्यं दद्यादगस्त्याय मूर्तिं संपूज्य वै मुने ! ।
काशपुष्पमयीं कुम्भे प्रदोषे कृतजागरः

1.119.3

दध्यक्षताद्यैः संपूज्य उपोष्य फलपुष्पकैः ।
पञ्चवर्णसमायुक्तं हेमरौप्यसमन्वितम्

1.119.4

सप्तधान्ययुतं पात्रं दधिचन्दनचर्चितम् ।
अगस्त्यः खनमानेति मन्त्रेणार्घ्यं प्रिदापयेत्

1.119.5

खासपुष्पप्रतीकाश अग्निमारुतसम्भव ! ।
मित्रावारुणयोः पुत्त्रो कुम्भयोने नमो ऽस्तु ते

1.119.6

शूद्रस्त्र्यादिरनेनैव त्यजेद्धान्यं फलं रसम् ।
दद्याद्द्विजातये कुम्भं सहिरण्यं सदक्षिणम् ।
भोजयेच्च द्विजान्सप्त वर्षं कृत्वा तु सर्वभाक्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc