भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.118

1.118.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽनङ्गत्रयोदशीव्रतं नाम सप्तदशोत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 118
ब्रह्मोवाच ।
व्रतं कैवल्यशमनमखण्डद्वादशीं वदे ।
मागशीर्षे सिते पक्षे गव्याशी समुपोषितः

1.118.2

द्वादश्यां पूजये द्विष्णुं दद्यान्मासचतुष्टयम् ।
पञ्चव्रीहियुतं पात्रं विप्रायेदमुदाहरेत्

1.118.3

सप्तजन्मनि हे विष्णो यन्मया हि व्रतं कृतम् ।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे

1.118.4

यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम ।
तथाखिलान्यखण्डानि व्रितानि मम सन्ति वै

1.118.5

सक्तुपात्राणि चैत्रादौ श्रावणादौ घृतान्वितान् ।
व्रतकृद्वतपूर्णस्तु स्त्रीपुत्रस्वर्गभाग्भवेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc