गरुड़ पुराण · अध्याय 1.102
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तग्रहशान्तिनिरूपणं नामैकोत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 102
याज्ञवल्क्य उवाच ।
वानप्रस्थाश्रमं वक्ष्ये तच्छृण्वन्तु महर्षयः ।
पुत्रेषु भार्यां निः क्षिप्य वनं गच्छेत्सहैव वा
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी ।
अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा
भृत्यांस्तु तर्पयेच्छ्मश्रुजटालोमभृदात्मवान् ।
दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात्
स्वाध्यायवान्ध्यानशीलः सर्वभूतहित रतः (तिः) ।
अह्नो मासस्य मध्ये वा कुर्याद्वार्थपरिग्रहम्
कृतं त्यजेदाश्वयुजे युञ्जेत्कालं व्रतादिना ।
पक्षे मासे थवाश्नीयाद्दन्तोलूखलिको भवेत्
चान्द्रायणी स्वपेद्भूमौ कर्म कुर्यात्फलादिना ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः
आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत् ।
यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति ।
अक्रुद्धः परितुष्टश्च समस्तस्य च तस्य च
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0