भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.101

1.101.1

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्लोक्तगणपतिकल्पनिरूपणं नाम शततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 101
याज्ञवल्क्य उवाच ।
श्रीकामः शान्तिकामो वा ग्रहदृष्ट्यभिचारवान् ।
ग्रहयञ्ज्ञं समं कुर्याद्गहाश्चैते बुधैः स्मृताः

1.101.2

सूर्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुर्ग्रहगणाः स्मृताः

1.101.3

ताम्रकात्स्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ।
रजतादयसः सीसात्कांस्याद्वर्णान्निबोधत

1.101.4

रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः ।
कृष्णः कृष्णः क्रमाद्वर्णा द्रव्याणि मुनयस्ततः

1.101.5

स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत्पटे ।
स्नापयेद्धोमयेच्चैव ग्रहद्रव्यैर्विधानतः ।
सुवर्णानि प्रदेयानि वासांसि सुसुमानि च

1.101.6

गन्धाश्च बलयश्चैव धूपो देयश्चगुग्गुलुः ।
कर्तव्यास्तत्र मन्त्रैश्च चरवः प्रतिदैवतम्

1.101.7

आकृष्णेन इमन्देवा अग्निर्मूर्धादिवः ककुत् ।
उब्दुध्यस्वेति जुहुयादेभिरेव यथाक्रमम्

1.101.8

बृहस्पतेपरिदीयेति सर्वे अन्नात्परिसुतम् ।
शन्नोदेवी कयानश्च केतुङ्क्रण्वन्निति क्रमात्

1.101.9

अर्कः पलाशः खदिरस्त्वपामार्गो ऽथ पिप्पलः ।
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात्

1.101.10

होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्वितः ।
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम्

1.101.11

दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ।
दद्याद्गहक्रमादेतान् ग्रहेभ्यो भाजनं ततः

1.101.12

धेनुः शङ्खस्तथानड्वान्हेम वासो हयस्तथा ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात् ।
ग्रहाः पूज्याः सदा यस्माद्रज्यादि प्राप्यते फलम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc