भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.103

1.103.1

इति श्रीगारुजे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नाम द्व्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 103
याज्ञवल्क्य उवाच ।
भिक्षोर्धर्मं प्रवक्ष्यामितं निबोधत सत्तमाः ।
वनाद्गृहाद्वा कृत्वेष्टिं सर्ववेदसदक्षिणाम्

1.103.2

प्राजापत्यन्तदन्ते ऽपि अग्निमारोप्य चात्मनि ।
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः

1.103.3

सर्वारामं परिव्रज्य भिक्षार्थो ग्राममाश्रयेत् ।
अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नाभिलक्षितः

1.103.4

रोहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः ।
भवेत्परमहंसो वा एकदण्डी यमादितः

1.103.5

सिद्धयोगस्त्यजन्देहममृतत्वमिहाप्नुयात् ।
दातातिथिप्रियो ज्ञानी गृही श्राद्धे ऽपिमुच्यते

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc