भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 9.9

9.9.1

महापूजाप्रकारकथनम्
श्रीव्यास उवाच -
उपचारस्य मंत्राणि वेदोक्तानि शुभानि च ॥
तुभ्यं वक्ष्यामि राजेंद्र शृणुष्वैकाग्रमानसः

9.9.2

अथावाहनम्
गोलोकधामाधिपते रमापते
गोविंद दामोदर दीनवत्सल ॥
राधापते माधव सात्वतां पते
सिंहासनेऽस्मिन्मम संमुखो भव

9.9.3

अथासनम्
श्रीपद्मरागस्फुरदूर्ध्वपृष्ठं
महार्हवैदूर्यखचित्पदाब्जम् ॥
वैकुण्ठ वैकुण्ठपते गृहाण
पीतं तडिद्धाटककुम्भखण्डम्

9.9.4

अथ पाद्यम्
परं स्थितं निर्मलरौक्मपात्रे
समाहृतं बिंदुसरोवराद्धि ॥
योगेश वेदेश जगन्निवास
गृहाण पाद्यं प्रणमामि पादौ

9.9.5

अथ अर्घ्यम्
जलजचम्पकपुष्पसमन्वितं
विमलमर्घ्यमनर्घदरस्थितम् ॥
प्रतिगृहाण रमारमण प्रभो
यदुपते यदुनाथ यदूत्तम

9.9.6

अथ स्नानम्
काश्मीरपाटीरविमिश्रितेन
सुमल्लिकोशीरवता जलेन ॥
स्नानं कुरु त्वं यदुनाथ देव
गोविंद गोपालक तीर्थपाद

9.9.7

अथ मधुपर्कस्नानम्
मध्याह्नचंद्रार्कभवं मलापहं
सितांगसंपर्कमनोहरं परम् ॥
गृहाण विष्णो मधुपर्कमेनं
संदृश्य पीतांबर सात्वतां पते

9.9.8

अथ वस्त्रम्
विभो सर्वतः प्रस्फुरत्प्रोज्ज्वलं च
स्फुरद्‌रश्मिरम्यं परं दुर्लभं च ॥
स्वतो निर्मितं पद्मकिंजल्कवर्णं
गृहणांबरं देव पीतांबराख्यम्

9.9.9

अथ यज्ञोपवीतम्
सुवर्णाभमापीतवर्णं सुमंत्रैः
परं प्रोक्षितं वेदविन्निर्मितं च ॥
शुभं पंचकार्येषु नैमित्तिकेषु
प्रभो यज्ञ यज्ञोपवीतं गृहाण

9.9.10

अथ भूषणम्
कनकरत्‍नमयं मयनिर्मितं
मदनरुक्कदनं सदनं रुचाम् ॥
उषसि पूषसुवर्णविभूषणं
सकललोकविभूषण गृह्यताम्

9.9.11

अथ गंधम्
संध्येंदुशोभं बहुमंगलं श्री-
काश्मीरपाटीरकपंकयुक्तम् ॥
स्वमंडनं गन्धचयं गृहाण
समस्तभूमण्डलभारहारिन्

9.9.12

अथाक्षतान्
ब्रह्मावर्ते ब्रह्मणा पूर्वमुप्तान्
ब्राह्मैस्तोयैः सिंचितान्विष्णुना च ॥
रुद्रेणाराद्‌रक्षितान् राक्षसेभ्यः
साक्षाद्‍भूमन्नक्षतांस्त्वं गृहाण

9.9.13

अथ पुष्पाणि
मन्दारसन्तानकपारिजात-
कल्पद्रुमश्रीहरिचन्दनानाम् ॥
गृहाण पुष्पाणि हरे तुलस्या
मिश्राणि साक्षान्नवमंजरीभिः

9.9.14

अथ धूपम्
लवंगपाटीरजचूर्णमिश्रं
मनुष्यदेवासुरसौख्यदं च ॥
सद्यः सुगंधीकृतहर्म्यदेशं
द्वारावतीभूप गृहाण धूपम्

9.9.15

अथ दीपम्
तमोहारिणं ज्ञानमूर्तिं मनोज्ञं
लसद्वर्तिकर्पूरपूरं गवाज्यम् ॥
जगन्नाथ देव प्रभो विश्वदीप
स्फुरज्ज्योतिषं दीपमुख्यं गृहाण

9.9.16

अथ नैवेद्यम्
रसैः शरैर्भेदविधिव्यवस्थितं
रसै रसाढ्यं च यशोमतीकृतम् ॥
गृहाण नैवेद्यमिदं सुरोचकं
गव्यामृतं सुन्दर नन्दनन्दन

9.9.17

अथ जलम्
गंगोत्तरीवेगबलात्समुद्‍धृतं
सुवर्णपात्रेण हिमांशुशीतलम् ॥
सुनिर्मलाभं ह्यमृतोपमं जलं
गृहाण राधावर भक्तवत्सल

9.9.18

अथाचमनम्
राधापते श्रीविरजापते प्रभो
श्रियः पते सर्वपते च भूपते ॥
कंकोलजातीफलपुष्पवासितं
परं गृहाणाचमनं दयानिधे

9.9.19

अथ तांबूलम्
जातीफलैलासुलवंगनाग-
वल्लीदलैः पूगफलैश्च संयुतम् ॥
मुक्तासुधाखादिरसारयुक्तं
गृहाण तांबूलमिदं रमेश

9.9.20

अथ दक्षिणा
नाकपालवसुपालमौलिभि-
र्वंदितांघ्रियुगल प्रभो हरे ॥
दक्षिणां परिगृहाण माधव
लोकदक्ष वरदक्षिणाय ते

9.9.21

अथ नीराजनम्
प्रस्फुरत्परमदीप्तिमंगलं
गोधृताक्तनवपंचवर्तिकम् ॥
आर्तिकं परिगृहाण चार्तिहन्
पुण्यकीर्तिविशदीकृतावने

9.9.22

अथ नमस्कारः
नमोऽस्त्वनंताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ॥
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटीयुगधारिणे नमः

9.9.23

अथ प्रदक्षिणा
समस्ततीर्थयज्ञदानपूर्तकादिजं फलम् ॥
लभेत्परस्य शाश्वतं करोति यः प्रदक्षिणाम्

9.9.24

अथ प्रार्थना
हरे मत्समःपातकी नास्ति भूमौ
तथा त्वत्समो नास्ति पापापहारी ॥
इति त्वं च मत्वा जगन्नाथ देव
यथेच्छा भवेत्ते तथा मां कुरु त्वम्

9.9.25

अथ स्तुतिः
संज्ञानमात्रं सदसत्परं मह-
च्छश्वत्प्रशांतं विभवं समं महत् ॥
त्वां ब्रह्म वंदे हि सुदुर्गमं परं
सदा स्वधाम्ना परिभूतकैतवम्

9.9.26

एवं संपूज्य देवेशमेभिर्मंत्रैर्महामते ॥
प्रणम्य विष्णुं सर्वांगपूजां कुर्यात्प्रयत्‍नतः

9.9.27

ॐ नमो नारायणाय पुरुषाय महात्मने ॥
विशुद्धसत्वधीस्थाय महाहंसाय धीमही

9.9.28

इति मंत्रेण प्राणायामं कृत्वा
ॐ विष्णवे मधुसूदनाय वामनाय त्रिविक्रमाय
श्रीधराय हृषीकेशाय पद्मनाभाय दामोदराय
संकर्षणाय वासुदेवाय प्रद्युम्नाय अनिरुद्धाय
अधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः ॥
इति पादगुल्फजानूरुकट्युदरपृष्ठभुजाकंधरकर्ण-
नासिकाधरनेत्रशिरःसु पृथक् पृथक् पूजयामीति
सर्वाङ्गपूजां कुर्यात् ॥ तथा सखीसखशंखचक्रगदा-
पद्मासिधनुर्बाणहलमुसलादीन् तथा कौस्तुभवनमाला-
श्रीवत्सपीतांबरनीलांबरवंशीवेत्रादीन् तथा
तालांकगरुडांकरथदारुकसुमतिसारथिगरुड-
कुमुदनंदसुनंदचंडमहाबलकुमुदाक्षादीन् ॥
प्रणवपूर्वेण चतुर्थ्यन्तेन नमःसंयुक्तेन नाम्ना
तथा विष्वक्सेनशिवविधिदुर्गाविनायकदिक्पाल-
वरुणनवग्रहमातृकादीन्मंत्रैः पूजयेत् ॥
ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः

9.9.29

इति मंत्रेण शतमाहुतीर्जुहुयात् ॥
देवं प्रदक्षीणीकृत्य महाभोगं निधाय च ॥
प्रणमेद्दंडवद्‍भूमौ मंत्रमेतमुदीरयेत्

9.9.30

ध्येयं सदापरिभवघ्नमभीष्टदोऽहं
तीर्थास्पदं शिवविरंचिनुतं शरण्यम् ॥
भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतं
वंदे महापुरुष ते चरणारविंदम्

9.9.31

इति नत्वा हरिम् राजन्पुनर्नीराजनं हरेः ॥
कारयेद्विधिवद्‌भक्तो हरिभक्तजनैः सह

9.9.32

घटीवाद्यरणद्‍घण्टाकांस्यवीणादिकीचकैः ॥
करतालमृदङ्गाद्यैः कीर्तनं कारयेद्‍बुधः

9.9.33

नृत्यन्ति श्रीहरेरग्रे भक्ता वै प्रेमविह्वलाः ॥
जयध्वनिसमायुक्ताः सत्कथागानतत्पराः

9.9.34

पुनः प्रभुं नमस्कृत्य मंदिरे तपनोज्ज्वले ॥
शयनं कारयेत्सम्यक् श्रीकृष्णस्य महात्मनः

9.9.35

एवं करोति श्रीकृष्णसेवां यो लग्नमानसः ॥
प्रणमंति च तं राजन्देवताः स्वर्गसंभवाः

9.9.36

सोऽपि राजेन्द्र नाकेऽपि पदं धृत्वा हरेर्जनः ॥
अंते याति परं धाम गोलोकं योगिदुर्लभम्

9.9.37

इति श्रीकृष्णसेवाया विधानं वर्णितं मया ॥
चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि

9.9.9

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
श्रीकृष्णसेवाविधानवर्णनं नाम नवमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc